शुक्रवार, 16 नवंबर 2018

यानगृहकुट्टिमम्

नवमासेभ्यः पूर्वं यानगृहस्य कुट्टिमं रसायनेनावेष्टितम्। रसायनावरणेन भूमिर्यानाभ्यां तैलादिभिः पीता न भूयात्। तस्य रञ्जनमपि कारितम्। आभ्याङ्कुट्टिमं भव्यं दृश्यते। ऐषमो नितरां निदाघो बभूव। तेन कुट्टिमे रसायनो द्रवीबभूव। यानचक्राणां मुद्राः कुट्टिमेऽदृश्यन्त। द्वाभ्याँय्यानाभ्यामष्ट मुद्रा दृरीदृश्यन्ते। यः कर्मकरा रसायनावरणमकरोत् स आवाभ्यां सूचितः। अहङ्कुट्टिमं परिष्करिष्यामीति तेनोक्तम्। परिष्करणाय समयो निर्धारितः। अतितराङ्घर्मकारणात् कुट्टिमं परिष्कर्तुन्न शक्यते यतो रसायनः पुनर्द्रवीभविष्यतीति निर्धारितसमयात् पूर्वस्मिन् दिने तेनोक्तम्। अस्तु - निदाघकालगमनात् प्राक् कारयिष्याव इत्यावाभ्यामुत्तरितम्। ओक्टोबरमासेऽऽवां तं पुनराहूतवन्तौ। इदानीं तु प्रतिदिनं वर्षा पततीत्यता रसायनेन पुनारावरणं सुकरं नास्ति यतोऽऽर्द्ररसायनो यथावन्न परिशुष्येत्। अस्तु - अन्यस्मिन् दिने कारयावः। गतसप्ताहे तं पुनराहूतवन्तौ। इदानीं तु बहुशैत्यमस्ति। रसायनं सुनिबद्धनाय न्यूनातिन्यूनमातपस्तरः पञ्चपञ्चाशद्डिगरीपरिमिता भवेदिति स साम्प्रतं विवदति। स कुट्टिमं परिष्कर्तुन्नेच्छतीति प्रतिभाति। आगामिमङ्गलवासरे करिष्यामीति स इदानीं वदति। द्रक्ष्यावो यदि स कुट्टिमङ्करोति न वा।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें