रविवार, 20 जनवरी 2019

अङ्कनलेखन्यः

गेहे पुत्रं श्वेतफलकेन गणितमक्षरविन्यासञ्च पाठयामि। तदर्थमङ्कनलेखनीरुपयुञ्जवहे। चतस्रोऽङ्कनलेखनीरासन् परं ताः शुष्का जाताः। अद्यारभ्य नूतनसंस्कृतवर्गोऽप्यारप्स्यते। तदर्थमपि लेखन्य आवश्यक्यः। अतश्चतस्रो नूतनाङ्कनलेखनीः क्रीतवान्। अस्मिन्वारमपरया संस्थया निर्मिता लेखनीः क्रीतवान् यतो पूर्वतन्यो लेखन्योऽल्पकालात्परमेव शुष्का अभवन्। एता नूतनाङ्कनलेखन्यः कथं भविष्यन्तीति द्रष्टव्यम्।

2 टिप्‍पणियां:

  1. संस्कृतवर्गाय वर्धापनम्। छात्राः सामान्यतः कियत् वर्षदेशीयाः सन्ति? कति छात्राः सन्ति? वर्गः सप्ताहे कतिवारं मिलति? मन्ये मामका विचाराः इति जालपत्रे भवान् इदं सर्वं वर्णयिता। पुनः वर्धापनम्।

    जवाब देंहटाएं
    उत्तर
    1. धन्यवादः। वर्गे द्वादशछात्राः सन्ति। सर्वे छात्राः प्रौढाः (प्रायः चत्वारिंशद्वर्षदेशीयाः)। प्रतिभानुवासरं सार्धैकघण्टां यावदभिमुखसम्मेलनं भवति।

      हटाएं