गतरात्रौ मम मस्तिष्के 'पर्सिस् खम्बाटा' इति नामाकस्मिकतयागच्छत्। सा काचित्प्रसिद्धमहिला बभूवेति मया ज्ञातमासीत्परन्तु तस्याश्चित्रं तस्या विवरणं मम मस्तिष्के न प्राकटयत्। बाल्यकालेऽन्तर्जालं नासीत्। तस्मात् सूचना विरलतया मिलति स्म। सम्प्रति तु कदापि किमप्यन्वेष्टुं शक्यते। तस्या नामान्तर्जालेऽस्थापयम्। तेन ज्ञातं सा मिस्-इण्डिया-१९६५ आसीत्। सा चलचित्रविज्ञापनादिषु कार्यं चकार। धूम्रपानदुर्व्यसनेन केवलमेकोनपञ्चाशद्वयसि तस्याः स्वर्गवासं बभूव। तस्या आत्मा शान्तिं प्राप्यात्।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें