रविवार, 19 नवंबर 2017

उन्नयनी

ह्यः कस्याञ्चित् पठ्यमानायाङ्कथायां ‘उन्नयनी’ शब्दो मया पठितम्। तस्यार्थो मया न ज्ञातः। शब्दकोशेऽपि लब्धुमसमर्थोऽहम्। तदानीं संस्कृतव्याकरणे सहायतया स्वयमेवास्य शब्दस्यार्थोऽवगन्तुमशक्नवमहम्। अस्मिञ्छब्दे ‘उद्‘ उपसर्गः ‘नी’ धातुश्च प्रयुज्येतयिति मयोहितम्।

उद् + नयनी → उन्नयनी (अनुनासिकसन्धिः)

किञ्चिद्वस्तूर्ध्वं नयतीति सन्दर्भो मयोहितम्। अनन्तरङ्कथायां सन्दर्भं दृष्ट्वा मयोहितँय्यत् ‘उन्नयनी’ शब्दस्यार्थः ‘एलिवेटर’ अस्ति।

उन्नयनी - योर्ध्वं नयति सा (समानाधिकरणबहुव्रीहिसमासः)

व्याकरणज्ञानेन स्वयमेव नूतनशब्दस्यार्थो मयोहितमिति ज्ञात्वा मन्मनसि महान् सन्तोष उदभवत्।

3 टिप्‍पणियां:

  1. वर्धापनम्। भवता सुष्ठु कृतम्।

    जवाब देंहटाएं
  2. अयं जालपृष्ठः नूतनशब्देभ्यः उपयोगी अस्ति । पश्यतु
    http://spokensanskrit.org/index.php?mode=3&script=hk&tran_input=unnayani&direct=se

    जवाब देंहटाएं