अद्य वयं रामायणे दृष्टङ्कञ्चन श्लोकं पठामः।
स्थितिरियम्। रावणः सीतामपाहरत्। यदा स सीतां पुष्पकविमानेन लङ्कान्नयमान आसीत्तदा सीता तस्या आभूषणान्याकाशाद्विमानादपातयत्। भूतले रामलक्षम्णौ वानराश्च तस्या अन्वेषणङ्कर्तुं प्रयतमाना आसन्। तान्याभूषणानि वानरैरलभ्यन्त। ते राममुपागच्छँस्तमाभूषणान्यदर्शयँश्च। परन्तु स सीताया वियोगकारणादतीवशोकग्रस्त आसीत्। स कोऽपि सम्भाषणङ्कर्तुन्नाशक्नोत्। तदानीं वानरा लक्ष्मणमाभूषणान्यदर्शयन्। आभूषणानि दृष्ट्वा लक्ष्मण इत्यवदत् -
नाहं जानामि केयूरे, नाहं जानामि कुण्डले।
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दात्॥
न अहं जानामि केयूरे - केयूरमर्थो वलयं, केयूरं वलयमित्यादीनि कानिचन भुजाभूषणानि सन्ति। केयूरे - इति तु ‘केयूर’ प्रतिपादिकस्य प्रथमाविभक्तेर्द्विवनचनमस्ति - केयूरं केयूरे केयूरानि। यतो द्वे भुजे स्तोऽतो द्वे केयूरे स्तः।
कुण्डलं तु वयञ्जानीमः - कर्णाभूषणानि। कुण्डले अपि द्विवचने। नूपुरं तु पादाभूषणम् - नूपुरे अपि द्विवचने।
नाहं जानामि केयूरे, नाहं जानामि कुण्डले। लक्ष्मणोऽवदत् - अहन्न जानामि एतान्याभषूणानि। कान्याभूषणानि? केयूरे कुण्डले च।
नूपुरे तु अभिजानामि - तदानीं सोऽवदत् - परन्त्वहमेते नूपुरे तु जानामि। कथं स नूपुरे अजानीत्। नित्यं पादाभिवन्दात्। नित्यं पादाभिवन्दादित्युक्ते - यतो लक्ष्मणः सीतायाः पादौ प्रतिदिनं वन्दते स्मातः स तस्याः पादौ प्रतिदिनं पश्यति स्म। तस्मात् कारणात् स तस्याः पादाभूषणानि जानाति स्म।
सङ्क्षिप्तरूपेऽस्मिञ्छलोके लक्ष्मणः कथयति स सीतायाः कर्णभुजाभूषणानि नाभिजानाति परन्तु स तस्याः पादाभूषणान्यभिजानाति।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें