मंगलवार, 14 नवंबर 2017

वसुधैव कुटुम्बकम्

अद्य वयं हितोपदेशे दृष्टङ्कञ्चन श्लोकं पठिष्यामः। श्लोक इति -

अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

सन्धिविच्छेदितरूपम् -
अयं निजः परः वा इति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधा एव कुटुम्बकम्॥

प्रथमवाक्यस्य सन्धिविच्छेदङ्कृत्वैतद्वाक्यँल्लभ्यते - अयं निजः परः वा इति गणना लघुचेतसाम् - प्रथमतः ‘लघुचेतसां’ इति शब्दस्य विश्लेषणङ्कुर्मः। ‘लघुचेतसां’ एष ‘लघुचेतस्’ पदस्य षष्ठीविभक्तेर्बहुवचनमस्ति। ‘चेतस्’ किं? ‘चेतस्’ इत्युक्ते मनोऽथवा बुद्धिः। ‘लघुचेतस्’ किम्? अल्पबुद्धिरथवा क्षीणबुद्धिः। ‘निजः’ अर्थः स्वस्य। ‘परः’ अर्थोऽन्यस्य। अतः प्रथमवाक्यस्यार्थ इति - एतद्वस्तु मम, तद्वस्त्वन्यस्येत्यल्पबुद्धियुक्ता जना गणयन्ति।

द्वितीयवाक्यं पठामः।
उदारचरितानां तु वसुधैव कुटुम्बकम् - सन्धिविच्छेदितरूपमिति - उदारचरितानां तु वसुधा एव कुटुम्बकम। ‘उदारचरितानां’ - पुनष्षष्ठीविभक्तिबहुवचनमस्त्यत्र। उदारचरिताः के? येषाञ्जनानाञ्चरित्रमुदारं ते उदारचरिताः। वसुधा का? पृथ्वी, जगत्, संसारः। कुटुम्बकङ्किम्? कुलमथवा वंशः। उदारजनास्समस्तजगत्तेषाङ्कुलमिव चिन्तयन्तीति द्वितीयवाक्यस्यार्थः।

इदानीँव्वयं सङ्क्षिप्तरूपेणास्य श्लोकस्यार्थो वक्तुं शक्नुमः। एतद्वस्तु मम तद्वस्त्वन्यस्य - इत्यल्पबुद्धिजनाश्चिन्तयन्ति। उदारजनास्तु समस्तजगत्तेषाङ्कुलमिव भावयन्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें