बुधवार, 31 मार्च 2021

भ्रात्रा सह समभाषे

गतसप्ताहान्ते भ्रात्रा सह समभाषे। स तु कदापि मां दूरवाण्या नाह्वयति। अहमेव तमाह्वयामि। भवतु नाम। अनेनावां सम्पर्कस्तु वर्तते। तेनोद्योगस्त्यक्तः। स मामसूचयद्गतवर्षे कार्यालये तस्य परिवेक्षिका तस्य कार्यपरिमाणात्सन्तुष्टा न बभूव। केभ्यश्चिन्मासेभ्यः परस्तात्किञ्चित्प्रशंसा प्राप्ता भ्रात्रा। अनेन तस्योद्योगापायो न भवेदिति मम भ्राता मेने। परन्तु फरवरीमासे परिवेक्षिकायाः विपत्रमागतं यस्मात्स्पष्टमासीत्सा भ्रातुः कार्यात्सन्तुष्टा नासीत्। तदनन्तरं भ्रातोद्योगं तत्याज। स बुद्ध्या न व्यवजहारेति पितुरमतिः। अहं वक्तुन्न शक्नोमि। यदि तत्स्थानेऽहमभविष्यं यावच्छक्यमुद्योगं परिपालयितुं प्रायतिष्ये यत आयेन विना जीवनङ्कठिनम्। परन्तु भ्रातुः कार्यालये कियत्यहसहमाना स्थितिरासीत्तत्तु स एव जानाति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें