बुधवार, 18 दिसंबर 2024

उद्योगत्यजनसूचना

ह्य उद्योगत्यजनसूचना दत्ता। पर्यवेक्षकेन न्यूनप्रतिक्रियैव दर्शिता। वर्षस्यान्तिमदिनमुद्योगेऽस्मिन् ममान्तिमदिनं भविष्यति। नूतनवर्ष उद्योगं विना भविष्यामि।

मंगलवार, 17 दिसंबर 2024

उद्योगं त्यक्ष्यामि

अद्योद्योगं त्यक्ष्यामि। नूतनवर्षात्कार्यालयं प्रतिदिनं गन्तव्यम्। आ वर्षद्वयादयमोद्योगं मह्यं नारोचत। परन्तु वेतनं सम्यगासीत्। अन्यच्च सप्ताहे द्वयोर्दिनयोर्गृहात्कार्यं कर्तुं शक्तवान्। ताभ्यां कारणाभ्यां वर्षद्वयात्कथञ्चिदोद्योगऽनुवर्तितः। प्रतिदिनं वाहनसम्मर्दे वाहनचालनस्येच्छा नास्ति मम। अत उद्योगं त्यक्ष्यामि। आगामिनि वर्षे नूतनोद्योगस्यान्वेषणं करिष्यामि।