मंगलवार, 29 अप्रैल 2025

वातानुकूलयन्त्रम्

आ त्रिभ्यो वर्षेभ्यो गृहस्य वातानुकूलयन्त्रं सम्यक् कार्यन्न करोति। प्रायः पञ्चदशवर्षात्मकं पुरातनं यन्त्रम्। अस्मिन् सप्ताहे नूतनयन्त्रं कार्यकर्तृणा स्थाप्यते। बृहद्धनमावश्यकम्। एतावद्धनं व्ययित्वा सम्यक् कार्यं भूयात्।

किं कुर्वन्नस्मि?

गतवर्षान्त उद्योगमत्यजमिति सूचितवानासम्। तदनन्तरं त्रिभ्यो मासेभ्यो विरमामगृह्णाम्। तस्मिन् काले स्वदेशं गत्वा मातृपितरावमिलम्। ताभ्यां सह सप्ताहद्वयमतिष्ठम्। तदनन्तरं भ्रातुर्गृहमगच्छम्। तस्य कुटुम्बेन सह चत्वारि दिनान्यापयम्। अन्यान् जनानप्यमिलम्। सर्वजना हर्षिताः। पुनः परदेशमागत्य कार्यमारभम्। मित्रस्य काचित्संस्थास्ति। तस्यै संस्थायै कार्यं कुर्वन्नस्मि। वेतनं तु न्यूनमेवास्ति परन्तु कार्यं सम्यगस्ति। अन्यच्च गृहादेव कार्यं कर्तुं शक्नोमीति सन्तोषः। कतिभ्यो दिनेभ्यो न्यूनं वेतनं स्वीकर्तुं शक्नोमीति द्रष्टव्यम्।