बुधवार, 25 जून 2025

भार्याया दीर्घदिनम्

सामान्यतो मद्भार्यायाः कार्यालये सा स्वयमेव कार्यं करोति। अन्ये जना अन्येषु नगरेषु वसन्तस्ततत्रतः कार्यं कुर्वन्ति। परन्तु सप्ताहेऽस्मिन्नुपदशजना कस्मैचित्सम्मेलनायागतवन्तः। सामान्यतो भार्या सार्धनववादने गत्वा चतुर्वादने गृहमागच्छति। परन्तु सप्ताहेऽस्मिँस्तया कार्यालयमष्टवादने गत्वा पञ्चवादनपर्यन्तं स्थातव्यम्। अहो दीर्घदिनं तस्याः।

मंगलवार, 24 जून 2025

कार्यं प्रचलति

मित्राय कार्यं प्रचलति। प्रथमयोर्द्वयोः कार्ययोर्ध्रुववेतनमासीत्। इत्युक्ते कार्याभ्यां कियान् समय आवश्यक इत्यपरिगणय्य कार्यं कृतम्। परन्तु तदनन्तरमहं मित्रमवदमिति न समीचीनम्। कार्याय यावान् समय आवश्यकस्तदाधारिकृत्य वेतनं दीयताम्। तेन्तदङ्गीकृतम्। इदानीं कार्यं वेतनञ्च किञ्चित्सममाने।