अद्यत्वेऽन्तरिक्षविज्ञानं पठन्नस्मि। सप्ताहे त्रयदिनेभ्यः कार्यं करोमि। अन्येषु दिनेषु विज्ञानं पठामि। अर्धसमयं यावदेव कार्यं करोमि तस्माद्वेतनं तु न्यूनमेवास्ति। परन्तु विज्ञानं पठनस्य मम बालवस्थाया इच्छासीत्। इदानीं वयो वर्धते। अग्रिमेषु वर्षेषु स्वास्थ्यं कथं भवेत्तको जानीयात्? तेन कारणेनैव यावन्तीच्छाः सन्ति तासु याः का अपि पूरयितुं शक्यन्ते ताः पूरयामि।
गुरुवार, 21 अगस्त 2025
गुरुवार, 7 अगस्त 2025
पोकेमोन्-मेलनम्
पोकेमोनेषु पुत्रस्य विशेषरुचिरस्ति। गतसप्ताहान्तेऽस्माकं नगरे पोकेमोन्-मेलनमभवत्। कुटुम्बस्तत्र नीतः। पुत्रो हर्षितोऽभवत्।
सदस्यता लें
संदेश (Atom)