अस्मिञ्छुक्रवासरे मया मदीयै संस्थायै त्रीणि सन्दर्शनानि कर्तव्यान्यासन्। परन्तु ह्यो विपत्रेण सूचना प्राप्ता तानि सन्दर्शनानि न भवितारः (कस्माच्चित्कारणात्)। तां सूचनां प्राप्य किञ्चिद्धर्षमन्वभवम्। शुक्रवासरे सार्धद्विवादनादारभ्य सप्तवादनं पर्यन्तं सन्दर्शनानि कर्तव्यानयीति चिन्तयित्वा सप्ताहास्यान्तिमदिनस्य मोदो गतः। इदानीं पुनरागच्छति।
गुरुवार, 10 सितंबर 2020
सन्दर्शनानि विलुप्तानि
यू-ट्यूब्जालस्थाने पाठाः
वाद्ययन्त्राभ्यासं प्रतिदिनङ्करोमि। यू-ट्यूब्जालस्थाने बहवः पाठाः सन्ति। ह्य एकं पाठमपठम्। पाठयितारेण कीदृशः परिश्रमः कृतः पाठरचनायायिति दृष्ट्वा पाठोऽयं मयि विस्मयमजनयत्। द्वाविंशतिनिमेषमितः पाठस्तेन सप्ततिघण्टा यापयित्वा रचितः। परिणामः पाठे दृष्टुं शक्यते। अत्युत्तमपाठः। ईदृशः परिश्रमो यः करोति पाठश्च निश्शुल्कं पाठयति स तस्य फलं प्राप्तुमर्हः। अस्मिन्सप्ताहान्ते तस्मै धनदानङ्कर्तास्मि। गुरवे नमामि।
बुधवार, 9 सितंबर 2020
सन्धिवर्गः - २
गतसप्ताहान्ते छात्रान्यान्तवान्तादेशपूर्वरूपसन्धी अपाठयम्। एतावत्पपर्यन्तं मया छात्रेभ्यो गृहकार्यन्न दत्तम्। सन्धेर्बहुषु नियमेषु को नियमो योजनीय इत्यस्य प्रधानकौशलस्य विकास आवश्यकः। यदि प्रत्येकस्मात्सन्धेः परङ्गृहकार्यं दद्यां तर्हि गृहकार्यं सरलो भवेत्। छात्राणाङ्कौशलमपि न वर्धेत। अतः स्वरसन्धिं पूर्णतया पाठयित्वैव गृहकार्यं दास्यामि।
समयो वेगेन गच्छति
चतुर्णां दिनानामवकाशो वेगेनागच्छत्। अवकाशात्पूर्वमहमचिन्तयं यच्चतुर्दिनानामवकाशो दीर्घं भावयिष्यते परन्तु तन्नाभवत्। किमपि विशेषन्नकरवम्। तथापि समयो वेगेन गतः। शनिवासरे भोजनालयाद्भोजनमानीयाखादाम। तेन भार्यापुत्रौ हर्षितौ।
शुक्रवार, 4 सितंबर 2020
चत्वारि दिनानि यावदवकाशः
अस्मिन्सप्ताहान्ते कार्यालयाच्चत्वारि दिनानि यावदवकाशं गृह्णामि। वाद्ययन्त्रमभ्यासायोत्तमावसरः।
बुधवार, 2 सितंबर 2020
सन्धिवर्ग आरब्धः
गतसप्ताहान्ते सन्धिवर्ग आरब्धः। दश जना आगच्छन्। सर्वेषां सन्धिविषये रुचिरस्ति। जना उत्साहेन पठन्ति। आसत्रं तादृश उत्साहो भूयात्। सर्वे जनाः स्वेषां परिचयमददुः। अनन्तरमहं यण्सन्धिमपाठयम्। एका छात्रा अन्यस्मान्नगरादस्ति। सा सन्धिं पठित्वा हर्षिताभवत्।