द-सर्पेन्टिति वृतान्तमपश्यं दूरदर्शने। चार्ल्ससोभराजस्य विषये सत्या कथा दर्शितास्मिंश्चलचित्रे। बाल्यकाले चार्ल्समहाश्यस्य विषये श्रुतमासीद्मातृपितृभ्याम्। जानामि स्म स दुष्ट आसीत्। परन्तु कियता दौष्ट्येन तेन बहवो जना हता इति न जानामि स्म। विस्मितोऽस्मि कीदृशो जनः स आसीत्। द्रष्टव्यञ्चलचित्रम्।
मंगलवार, 14 सितंबर 2021
द-सर्पेन्ट्
रविवार, 12 सितंबर 2021
नूतनसत्रमारब्धम्
अद्य संस्कृतवर्गस्य नूतनसत्रमारब्धम्। चत्वारो नूतनजना आगमन्। वर्ग उत्तमरीत्या प्राचालीत्।
गुरुवार, 9 सितंबर 2021
वातानुकूलयन्त्रं प्रतिसमाहितम्
वातानुकूलयन्त्रं पर्याप्तशैत्यन्न ददाति स्म। आ मासाद्वयङ्कथञ्चिद्घर्मे जीवामः स्म। ह्यो वातानुकूलयन्त्रं प्रतिसमाहितम्। कार्यकर्तृणा यन्त्रं शीतजनकवायुना पूरितम्। चतुष्षष्ट्यधिकचतुश्शतानि रुप्यकाणि व्ययितानि। शीतजनकवायोर्मूल्यं रत्नायते। एतादृशङ्कार्यङ्कुर्वद्भिः कार्यकर्तृभिस्तन्मूल्यं कृत्रिमतयोन्नमितमस्तीति मम मतिः। या शीतजनकवायुर्जगति कोटिषु यन्त्रेषु स्थाप्यते तस्या मूल्यङ्कथमेतावद्भवितुं शक्नोति?
रविवार, 5 सितंबर 2021
पर्यवेक्षको ज्यागमयिषति
मामकाय पर्यवेक्षकाय गृहात्कार्यन्न रोचते। यद्यपि वयं सर्वे गृहात्कार्यङ्कुर्मस्तथापि स प्रतिदिनङ्कार्यालयङ्गच्छति। किञ्च वयमपि कार्यालयमागच्छेमेति सोऽभिलषति। कार्यालयेण शेषवर्षाय गृहात्कार्यङ्करणायनुमतिर्दत्ताः। अतः सोऽस्मानागमयितुन्न शक्नोति। परन्त्वग्रिमवर्षात्स निश्चयेनास्मानागमयिता।
श्वश्रूश्वशुरयोर्गहमगच्छाम
ह्यो वयं श्वश्रूश्वशुरयोर्गहमगच्छाम। पूर्वस्मादेव गमनाय भार्यापुत्रयोर्योजनासीत्। अहमप्यगच्छामीत्यहमवदम्। आ त्रिभ्यो वर्षेभ्यस्तयोर्गहमहन्नगच्छम्। कदाचित्तावत्रागच्छताम्। ह्यो मिलित्वा वयमरमामहे। ताभ्यां स्वादुभोजनं परिविष्टम्। तज्जग्ध्वा वयममोदामहे। ताभ्यां वयमेव निकस्थः कुटुम्बः। अस्मभ्यं तावेव। न्यूनातिन्यूं वर्षे द्विवारं मिलेम चेद्वरम्।
गुरुवार, 2 सितंबर 2021
पदोन्नतये कार्याणि
कार्यालये मम पदोन्नतये कर्तव्यानि कार्याणि वेगेन प्रचलन्ति। प्रायः कार्याणि मामकेन पर्यवेक्षकेण क्रियन्ताम्। स आस्थया कार्याणि निर्वहति। पदोन्नतिर्लभ्यतयुत नेति द्रक्ष्यते।
प्यानोपाठाः पुनरारभन्ते
ह्यः पुत्रः प्यानोवादनस्याग्रिमं स्तरं प्राविशत्। स्तरोऽयं परिश्रममपेक्षते। गतवर्षे पुत्रेण प्यानवभ्यासः कृतः परन्तु यावानावश्यकस्तावानेव। एतया नीत्या किञ्चिद्वादयितुं शक्यते परन्तु प्रचुरकौशलं तु न लभ्यते। तस्मै न्यूनतां विहायाधिकतयाभ्यासः करणीयः। स कुर्यादुत न वक्तुन्न शक्यते।