रविवार, 28 नवंबर 2021

श्वः कार्यङ्कर्तव्यम्

चत्वारदिनानि यावदवकाश उत्तम आसीत्। श्वः कार्यलयस्य कार्यङ्कर्तव्यम्।

नैरस्यमनुभवामि

आ मासात्प्रियतमङ्गीतं वादयितुं प्रयते। प्रतिदिनमभ्यासङ्करोमि। न्यूनातिन्यूनं शतवारं गुरुणा दत्तेन पाठेनाभ्यासमकरवम्। तथापि गीतं सम्यक्तया वादयितुं शक्नोमि। गीतं मम प्रियतमं परन्तु कतिवारं श्रोतुं शक्नुयाम्? प्रतिदिनं न्यूनातिन्यूनं त्रिवारं तु शृणोम्येव।

पुत्रमानैषम्

पुत्रो तस्य मातामह्या गृहमगच्छत्। गुरुवासरादारभ्याद्य पर्यन्तं तत्रैवासीत्। अद्य प्रातःकाले तमानैषम्। मध्यमर्गे मिलित्वा तस्य मातामही तं मह्ममदात्। स गृहमागत्य हर्षितः। मातामह्या गृहे स तया सह भिन्नानि पक्वानि पचति। मातामही बहूनि पक्वानानि प्रेषितवती।

बुधवार, 24 नवंबर 2021

गीतं तुदति

आ मार्चमासादमुकसङ्गीतसमूहस्य गीतानि वादयामि। एतावत्पर्यन्तं तत्समूहस्य सप्तगीतानि वादयितुं शक्नोमि। मदीयेन गुरुणा मम प्रियतमस्य गीतस्य पाठा रचितः। सत्पगीतानीव तद्गीतमपि वादयितुं शक्नुयामित्यहमचिन्तयम्। आ त्रिभ्यः सप्ताहेभ्यस्तद्गीतस्याभ्यासं प्रतिदिनङ्करोमि। तथापि तद्गीतं सम्यक्तया वादयितुन्न शक्नोमि। बहुषु मासेषु गीतमिदं प्रथममस्ति यन्मां तुदति। गीतमिदं मह्यं भृशं रोचते। तद्वादनायाहमभिलषामि। यायत्ये।

अवकाशमददाम्

आगामी सप्ताहान्तो दीर्घः। तदर्थं संस्कृतछात्रेभ्योऽवकाशमददाम्। छात्रेषु केवलमेकैवावकाशमयाचत परन्तु दीर्घसप्ताहान्ते बहवो जनाः प्रवासाय गच्छन्तीत्यतोऽहमवकाशमददाम्।

रविवार, 21 नवंबर 2021

गृहाभिरक्षायोजनाया शुल्कम्

प्रतिवर्षङ्गृहाभिरक्षायोजनाया शुल्कं वर्धते। अस्मिन्वर्षे तच्छुल्कं द्विशतरुप्यकाणिमितादवर्धत। गृहस्य हानिर्भवेच्चेदभिरक्षायोजनायाः किञ्चिद्धनं स्वेन दातव्यम्। तस्मात्परमेवाभिरक्षायोजना शिष्टं धनं ददाति। स्वेन दातव्यं शुल्कं वर्धय्येत चेदभिरक्षायोजनायाः शुल्कं न्यूनीभवति। अतोऽहं तदेवकरवम्। जानाम्यहङ्गृहस्य हानिर्भवेच्चेद्मयाधिकं धनं व्ययितव्यम्।

श्वश्रूश्वशुरौ

बुधवासरे श्वश्रूश्वशुरावगन्तारौ। कुटुम्बेन सह वयं भोजनङ्खादितास्मा रन्तास्महे च। पुत्रस्ताभ्यां सह गन्ता। तयोर्गृहे रविवासरपर्यन्तं स्थाता। आगामिनि सप्ताहे तस्य विद्यालयस्यावकाशोऽस्ति।