गृहोद्याने वृक्षा वर्तन्ते। शरदृतौ तेभ्यः पर्णानि पतन्ति - कोटिशः। यदि तानि पर्णानि न सङ्गृह्यन्ते तर्हि तृणं तैराव्रियते। अस्मात्तृणं सूर्यप्रकाशञ्जलञ्च न प्राप्नोति येन म्रियते। अतः पर्णसङ्ग्रहणमावश्यकम्। तत्सङ्ग्रहणङ्घोरश्रमोऽपेक्षते। आ त्रिभ्यो दिनेभ्यः प्रतिदिनङ्कानिचन पर्णानि सङ्गृह्णामि। इतोऽपि कोटिशः पर्णान्यवशिष्टानि। शनैःशनैः करिष्यामि।
शनिवार, 30 अप्रैल 2022
कोटिशः पर्णानि
मंगलवार, 26 अप्रैल 2022
जलस्रवणं समीकारितम्
रसवत्यां पात्रक्षालनकुण्डस्योऽधः स्रवज्जलं समीकृतम्। ह्यो भार्यापश्यद्यत्कुण्डेऽवकरपेषणयन्त्राज्जलं स्रवदस्ति। अद्य नलकारमाहूय नूतनावकरपेषणयन्त्रं स्थापितम्। पञ्चपञ्चाशदधिकद्विशतं रुप्यकाणि दत्त्वा सममस्या गतेति भासते।
रविवार, 24 अप्रैल 2022
जलं स्रवति
रसवत्याङ्क्षालकुण्डस्योऽधो जलं स्रवदस्ति। तत्रताभ्यो नलिकाभ्यो जलं स्रवतीति चिन्तयामः। परन्तु यदि पश्यामस्तर्हि स्रवज्जलङ्कुतश्चिन्न दृश्यते। रहस्यमस्ति। आगामिषु दिनेषु सूक्ष्मतयावलोकनीयम्।
भार्यापुत्रावगच्छताम्
ह्यो यदाहं संस्कृतसम्मेलनेषु भागं वहन्नासं तदा भार्यापुत्रौ भार्याया मित्रं मेलितुमगच्छताम्। तौ पञ्चघण्टा यावद्गतौ। मेलनान्यपि पञ्चघण्टा यावदासन्। उभे स्वादुभोजनञ्जग्ध्वामोदावहि। तन्मित्रमस्मभ्यं खाद्यानि पानीयानि चागमयत्। तस्य मित्रस्य हृदयो विशालः। सा सर्वदावयोः पुत्रस्य कृते किमपि प्रेषयति।
शनिवार, 23 अप्रैल 2022
सम्पत्तिकरः
सपम्पत्तिकरपत्रमागतम्। प्रतिवर्षं सम्पत्तिकरो दशप्रतिशतं वर्धते। वास्तुपरिहारवशाद् ('होम्स्टेड्-एग्सेम्पशन्') करः केवलं दशप्रतिशतं विर्धितः। अन्यथा पञ्चविंशतिप्रतिशतं वर्धितुं शक्नोति।
संस्कृतमेलनानि
सप्ताहान्तेऽस्मिन्बहवः संस्कृतमेलनानि वर्तन्ते। उभयोर्दिनयोश्चतस्रॄन्घण्टा यावन्मेलनानि सन्ति। आ वर्षारम्भादहं संस्कृतपाठनादवकाशं स्वीकुर्वन्नस्मि। मेलनानि न गच्छेमिति प्रथमतोऽचिन्तयम्। परन्तु संस्कृतश्रवणं वदनञ्च मामाकृष्टवन्ती। अनाभ्यासेन भाषाकौशलन्नापगच्छेदिति मम चिन्तासीत्। अतो मेलनेषु गन्तव्यमिति निश्चितं मया। इदानीमेवाद्यतनानि मेलनानि समाप्तानि। बहुभ्यो मासेभ्यः परं संस्कृतमुक्तवा श्रुत्वा च मोदे।
रविवार, 17 अप्रैल 2022
सोलरिस् (चलचित्रम्)
अद्य सोलरसिति चलचित्रमद्राक्षम्। पुस्तकं पठित्वा चलचित्रं दर्शनायेच्छा जागरुका। प्रायः विंशतिवर्षेभ्यः पूर्वञ्चलचित्रं द्रष्टमासीत्। तस्मिन्काले चलचित्रं मह्यन्नारोचतेति स्मरामि। परन्तु विंशतिवर्षेभ्यः पूर्वहं युवक आसम्। तस्मात्कालादहं बहूननुभवानलभे। सम्प्रत्यपि चलिचित्रन्न रूच्येतेति वक्तुं न शक्येत। चलचित्रं दृष्ट्वा सन्तुष्टोऽस्मि। चलचित्रं मह्यमरोचत। चलचित्रं पुस्तकात्किञ्चिद्भिन्नं परन्तु तत्तु किञ्चिदावश्यकमेवान्यथा जनाश्चलचित्रन्न पश्येयुः।