रविवार, 29 मई 2022

नूतनसङ्गणकाय नूतनवृत्तकम्

नूतनसङ्गणकाय नूतनवृत्तकङ्क्रीतम्। तत्स्थापनाय सङ्गणकस्य वर्तनीश्चालयन्नासं परन्त्वेका वर्तनी भग्ना जाता। तस्मात्सङ्गणके वृत्तकं स्थापनयियान्क्लेश आगतो येन वृत्तकं स्थापयितुन्नाशक्यत। वृत्तकं प्रतिप्रेषयितुं सज्ज आसम्। परन्तु मनसि विचार आगतः। एतद्वृत्तकं प्रतिलेखनायोपयोक्तुं शक्नुयाम्। अतो न प्रतिप्रेषयिष्यामि। प्रतिलेखनायैकमन्यदुपकरणमावश्यकम्। तदुपकरणमद्यागमिष्यति। तदनन्तरं प्रतिलेखितुं शक्नुयाम्।

शनिवार, 28 मई 2022

नूतनसङ्गणके लैनक्सः

षण्मासेभ्यः पूर्वं सङ्गणकङ्क्रीतमासीत्। सङ्गणके विन्डोसः स्थापितमासीत्। मह्यं लैनक्सः रोचतेतमाम्। नूतनसङ्गणके बहुभ्यो मासेभ्यो विन्डोस एव प्रयुक्तं यतो भार्या विद्यालयमजिगमिषत्। विद्यालयस्य कार्यस्य कृते विन्डोस आवश्यकमासीत्। परन्तु विद्यालयगमनस्य योजना स्थगिता। अद्य मया लैनक्सः स्थापितम्। पूर्वतनसङ्गणकं दशवर्षपुरातनमासीत्। नूतनसङ्गणकं प्रयुज्य हर्षितोऽस्मि।

शुक्रवार, 27 मई 2022

अनानुभवीनां बाहुल्यम्

कार्यालये सद्यकालेऽनानुभविकार्यकर्तॄणां प्राचुर्यं वर्धते। संस्थाया योजना तादृश्येव। अनुभविकार्यकर्तारोऽधिकवेतनमपेक्षन्ते, दिने केवलमष्टघण्टा यावत्कार्यङ्कुर्वन्ति। अनानुभविनो न्यूनवेतने कार्यङ्कुर्वन्ति। तेषाङ्कौटम्बिकदायित्वमपि नास्ति। तस्मात्ते रात्रिदिवं संस्थायै कार्यङ्कुर्वन्ति। तेषु पदोन्नतीच्छापि तीव्रास्ति। तस्मादपि तेऽधिककार्यङ्कुर्वन्ति। एवं सति संस्था किमर्थं तेभ्य उद्योगं न दद्यात्?

सोमवार, 16 मई 2022

चन्द्रग्रहणम्-२

अद्य कार्यालये पर्यवेक्षकेण सह सम्भाषमाणेऽहं तमसूचयं ह्या रात्रौ पुत्रेण सह चन्द्रग्रहणमपश्यमिति। झटिति तस्मिन् विशादो दृष्टः यतस्तस्य षड्वर्षीयः पुत्रोऽस्ति। मम पर्यवेक्षकोऽवदातीत्तेन न ज्ञातं चन्द्रग्रहणविषयेऽन्यथा स निश्चयेन तस्य पुत्रञ्चन्द्रग्रहणमदर्शयिष्यत्। नवम्बरमासे पुनश्चन्द्रग्रहणं भवितेत्हयं तमसूचयम्। तस्मिन्काले स तस्य पुत्रञ्चन्द्रग्रहणं दर्शयितुं शक्ष्यति।

रविवार, 15 मई 2022

चन्द्रग्रहणम्

अद्य रात्रौ चन्द्रग्रहणं भविष्यति। पुत्रेण कदापि चन्द्रग्रहणन्न दृष्टम्। तेन सह पश्यामि। दूरवीक्षणयन्त्रमपि प्रयोक्तुं प्रयतिष्यावहे।

पुत्रेण सह चलच्चित्रम्

गते सप्ताहे भार्या तस्या मित्रैः सह गृहेऽमिलत्। केवलं महिलानां मेलनमासीदित्यतोऽहं पुत्रेण सह चलच्चित्रं दर्शनायागच्छम्। 'बेड्-गायज्' इति चलच्चित्रं दर्शनाय तस्येच्छासीत्। चलच्चित्रं दृष्ट्वा पयोहिममखादाव।

सोमवार, 9 मई 2022

आदिनङ्कार्यङ्करिष्यति

एतावत्पर्यन्तं भार्यार्धदिनं यावदेव कार्यङ्करोति स्म। तया तस्याः संस्थायां भिन्नविभागयुद्योगः प्राप्तः। तत्रादिनङ्कार्यङ्कर्तव्यम्। अतः सा प्रातःकाले गत्वा साँयकालयेवागच्छेत्। एतावत्पर्यन्तमहं पुत्रं विद्यालयं प्रापयामि स्म भार्या मध्याह्ने पुत्रं विद्यालयादानयति स्म। इदानीं विप्रीतं भविष्यति। सा प्रातःकाले तं विद्यालयं नेष्यत्यहं मध्याह्ने तमानेष्यामि। नूतनदिनचर्या कथं भवेदिति द्रक्ष्यामः।