शनिवार, 31 अगस्त 2024

नूतनदले

नूतनदले कार्यमारभे। परन्तु सम्प्रति कार्यमेव नास्ति। ह्यः पर्यवेक्षकात्कार्यमयाचे। सोऽवदिदानीं भवते कार्यन्नास्ति। तर्ह्यहं किमर्थं दलेऽन्तर्भूतः कृतो न जाने।

मंगलवार, 20 अगस्त 2024

आँकि-शब्दकोशः

आ बहुभ्यो वर्षेभ्यः संस्कृते पठति मया संस्कृतशब्दानां बृहच्छब्दकोशा रचितः। स शब्दकोशः 'एड्वानस्ड्-संस्कृत-वोकेबलरि` इति नाम्ना `आँकिवेब` इति नाम्ना जालस्थाने स्थापितो येनान्यजना अपि तस्य शब्दकोशस्य प्रयोगं कर्तुं शक्नुयुः।

शनिवार, 3 अगस्त 2024

भौतिकविज्ञानम्

आ बाल्यकालाद्भौतिकविज्ञानं पिपठिषामि। सम्प्रति वर्षद्वयात्पठन्नस्मि। तेन कारणेनैव अत्र लेखा विरला जाताः। गतवर्षे क्वाण्टम्-मकेनिक्स्-शास्त्रमपठम्। अधुना जेनेरल्-रिलेटिविटिशास्त्रं पठामि।

रविवार, 28 जुलाई 2024

दलपरिवर्तनम्

आ वर्षात्कार्यालये दलेऽकस्मिन् कार्यं करोमि। इदानीं दलपरिवर्तनं करिष्यामि। नूतनदले कार्यं रुचिकरं भूयात्।

रविवार, 28 अप्रैल 2024

संस्कृतं न पाठयिष्यामि

अहं बहुभ्यो वर्षेभ्यः संस्कृतं पाठयन्नस्मि। इदानीं तस्माच्छ्रान्तिमनुभवामि। अत इतः परं संस्कृतं न पाठयिष्यामि। प्रायोऽग्रिमेषु वर्षेषु पुनः पाठयितास्मि।

रविवार, 14 अप्रैल 2024

ह्यस्तनं मेलनम्

ह्योऽस्माकं स्थानीयमेलनमभूत्। अन्यस्माद्राज्यात् कार्यकर्तापि विद्यमान आसीत्। त्रयघण्टात्मकं मेलनं सम्यगासीत्। अन्ते भोजनमपि कृतम्।

गुरुवार, 14 मार्च 2024

पेरिसनगरमगच्छाम

गते सप्ताहे वयं पेरिसनगरमगच्छाम। ह्या रात्रावेवागच्छाम। अत्युत्तमप्रवास आसीत्।