द्वाभ्यां मासाभ्यां पूर्वमुपरितनस्य स्तरस्य वातानुकूलयन्त्रं परिष्कारितम्। तदर्थं पञ्चसहस्ररुप्यकाणि व्ययितानि। सम्प्रति बहुघर्मवशान्निम्नस्तरस्य वातानुकूलयन्त्रं रात्रिन्दिवङ्कार्यङ्करोति। तद्भग्नं भवेदिति चिन्ता बाधते।
मंगलवार, 31 अगस्त 2021
वातानुकूलयन्त्राच्चिन्ताग्रस्तोऽस्मि
सोमवार, 30 अगस्त 2021
द्वे गीते
प्रपरह्योऽन्दर्जाले द्वे गीते लब्धे। विशेषतस्तयोर्वादनशैली। आ विंशतिवर्षेभ्य इमे गीते मह्यं रोचेते। कस्मिंश्चिद्दिनेऽमू वादयिष्यामीति चिन्तयामि स्म। अद्यत्वे तयोरभ्यासङ्करोमि। मासप्राये ते वादयितुं शक्ष्यामीत्यूहेऽहम्।
पुत्रस्य स्वसङ्गणकम्
विद्यालयेन दत्तं सङ्गणकं बृहत्फलकेन सह युज्यते। अतोऽद्यारभ्य पुत्रः स्वस्य सङ्गणकस्य प्रयोगङ्करिष्यति। अनेन दिनेऽहं मम सङ्गणकस्य प्रयोगकङ्कर्तुं शक्नोमि। पूर्वं पुत्र आदिनं मदीयस्य सङ्गणकस्य प्रयोगङ्करोति स्म। तस्मादहं तस्य प्रयोगङ्कर्तुन्न शक्नोमि स्म।
रविवार, 29 अगस्त 2021
विद्यालयात्सङ्गणकम्
गतवर्षे पुत्रो गृहादशिक्षत। आवर्षं स मम सङ्गणं प्रायुङ्क्त। यद्यपि तस्य विद्यालयः सङ्गणं ददाति तथापि वयं तन्नागृह्णीम यतो वयं नाजानीमहि आवर्षङ्गृहादेव पठिष्यते। अस्मिन्वर्षेऽपि पुत्रो गृहाच्छिक्षते। परन्तु वयं विद्यालयात्सङ्गणकमगृह्णीम। यदि तत्सङ्गणकं बृहत्फलकेन सह युज्येत तर्हि वरमन्यथा पुनर्मम सङ्गणकं प्रयोक्तव्यम्।
गुरुवार, 26 अगस्त 2021
नूतनपर्यवेक्षकश्चेक्रीयते
आ द्वाभ्यां मासाभ्यां नूतनवपर्यवेक्षकेण सह कार्यङ्करोमि। स सज्जनो भासते। मत्पदोन्नतयेऽपि स यतते। तस्य पर्यवेक्षकोऽपि सज्जनो भासते परन्तु स किञ्चिदधिकतया कार्यमपेक्षते। अतो मम पर्यवेक्षको यायत्यते। तस्य द्विषड्वर्षीयौ पुत्रौ वर्तेते। तेन सहानुभवामि।
रविवार, 22 अगस्त 2021
अष्टजनाः पञ्ज्यकुर्वत
आग्रिममासाद्गीतासोपानवर्गोऽनुवर्तयिष्यते। अष्टजनाः पञ्ज्यकुर्वत। विस्मितोऽहं। सामान्यतो जना अन्तिमद्वित्रिदिनेषु पञ्जीकुर्वते। प्राय इतोऽपि जनाः पञ्जीकुर्युः। मोदावहो विषयोऽयम्।
शनिवार, 21 अगस्त 2021
याननिरीक्षणम्
प्रतिवर्षं कारयानस्य निरीक्षणङ्कारणीयमिति सर्वकारेण विहीतम्। मम यानस्य चक्रमेकं जीर्णम्। तन्निरीक्षणन्नोत्तरिष्यतीति मया चिन्तितमासीत्। परन्तु दिष्ट्या तेन निरीक्षणमुत्तरितम्। नोत्तरेच्चेच्चक्रं परिवर्तनीयम्। परन्तु परिवर्तनन्न कारणीयमासीत्।