रविवार, 20 सितंबर 2020

सन्धिवर्गः ४

अद्य विसर्गसन्धिरारब्धः। अर्धघण्टां यावद्गतसप्ताहस्य गृहकार्यस्य विषये चर्चाभूत्। गृहकार्याय सम्पूर्णसप्ताहो दत्त आसीत्तथापि त्रयो जनाः समये न कृतवन्तः।

प्रशीतको मां भाययति

रसवत्यां प्रशीतको मां भाययति। सामान्यतादधिकनादं स करोति। तस्य वामपार्श्वे हस्तं स्थापयमि चेत्सामान्यतादधिकोष्णतामनुभवामि।

शुक्रवार, 18 सितंबर 2020

प्रशीतकादुत्सः

गतसप्ताहे भार्या पाकशालायाः कुट्टिमं मार्जवत्यासीत्। प्रशीतकस्य समीपे जलं दृष्टम्। विचारणायै सा प्रशीतकमाकृष्टवती। प्रशीतकस्य पृष्ठवर्ती भित्तिर्जलक्लिन्नासीत्! कथमेतद्बभूवेति न ज्ञातमावाभ्याम्। तदानीमहं व्यायामङ्कृत्वागत आसम्। जलपानायाहं प्रशीतकस्य जलमोचनयन्त्राज्जलमगृह्णि। तदा प्रशीतकस्य पृष्ठवर्त्या नलिकाया महज्जलोत्सो दृष्टः। भित्तिः कथञ्जलार्द्राभवदिति बुद्धम्। नूतननलिका स्थापनीयेति चिन्तयित्वावाङ्कार्यकर्तारमाह्वयाव। परन्तु नलिकायां यच्छिद्रमासीत्तेन तस्योपरि पट्टिका स्थापिता। तस्मै तेन शताधिकपञ्चपञ्चाशद्रूप्यकाण्ययाचत! आवाभ्यामेव पट्टिका स्थापनीयासीदिति विषादमन्वभवाव।

गुरुवार, 17 सितंबर 2020

जीर्णा काष्ठवृतिः

गृहस्याभितः काष्ठवृतिर्वर्तते। सा वृतिर्गृहनिर्माणसमये स्थापिता। बहुभ्यो वर्षेभ्यः परस्तात्सा वृतिर्जीर्णा जाता। केभ्यश्चिद्मासेभ्यः पूर्वं तस्यैकमंशं नवीकृतम्। इदानीमन्योऽंशः परिष्करणीयः। गतसप्ताहे कार्यकर्तृभिरागन्तव्यमासीत्परन्तु महद्वृष्टिरपतत्। अतस्ते श्व आगच्छेयुः। श्वः केवलं कियत्कार्यं कियच्छुल्कमाश्यकमिति सूचनायै तयागच्छेयुः। यदि शुल्कं सम्यगस्ति तर्हि वयं तैः कार्यं कारयिष्यामः।

मंगलवार, 15 सितंबर 2020

कार्यालये विलक्षणा स्थितिः

सामान्यतः कार्यालयेऽहमन्येषां दलानां तन्त्रांशेषु कार्यङ्करोमि। तस्मात्कार्यमतिमन्दगत्याग्रे सरति। परन्तु स्मप्रति तु कार्यं पराकाष्ठाङ्गतम्। लघुकार्यं साधयनायापि मासा आवश्यकाः। कदापि नैरस्यमनुभवामि। कदापि चिन्तयाम्युद्योगपरिवर्तनः करणीयः। परन्तु सम्प्रति या स्थितिर्वर्तते तया वाद्ययन्त्राभ्यासायाहं प्रभूतसमयं प्राप्नोमि। उद्योगपरिवर्तनङ्कुर्याञ्चेन्नूतनसंस्थायास्तन्त्रांशमवगन्तव्यम्। तस्मै महत्परिश्रम आश्यकः। समयाभावोऽपि भवेत्। अत उद्योगपरिवर्तनं दुष्करम्।

सोमवार, 14 सितंबर 2020

भार्याया विरामः

अद्य भार्या तस्याः कार्यालयाद्विरामङ्गृह्णाति। पुत्रस्य तु वर्गौ भविष्यत एव। ममापि कार्यमस्ति। तया कानिचिन्नैजकार्याणि कर्तव्यानि।

सन्धिवर्गः - ३

ह्यः स्वरसन्धिविषयः समाप्तः। सर्वे स्वरसन्धयो न पाठिता मया। ये बहुशो दृश्यन्ते तयेव पाठिताः। गृहकार्यमपि दत्तम्। कति जनाः कुर्युः कथङ्कुर्युरिति द्रष्टव्यम्।