गतकेषुचिद्दिनेभ्यः पात्रक्षालनयन्त्रं सम्यक्तया कार्यन्न करोति स्म। यन्तामाहूय धनं दत्त्वा समीकर्तव्यमिति चिन्तनमासीदावाम्। अद्य प्रातःकाले किञ्चित्प्रायतिष्वहि। तस्मादिदानीं तत्यन्त्रङ्कार्यङ्करोति। यन्त्रमेवमेव कार्यङ्क्रियात्।
रविवार, 21 फ़रवरी 2021
पात्रक्षालनयन्त्रम्
हिमातङ्को गतः
गतसप्ताहे प्रचलन्हिमातङ्को गतः (अन्ततः)। तेन सहाधिका चिन्तापि जगाम। परन्तु सर्वाश्चिन्ता इतोऽपि न गताः। बहिस्थो जलनलिका हिमस्तब्धा अभवन्। सम्प्रति हिमो द्रवति। भयोऽस्ति हिमनिपीडया नलिका भग्ना जाताः। अद्य तासां नलिकानां परीक्षणं करिष्यावहे। ताभ्यो जलन्न स्रूयात्।
शुक्रवार, 19 फ़रवरी 2021
अत्यधिकशैत्यम्
गतसप्तसु दिनेष्वत्यधिकशैत्यमासीत्। एतावच्छैत्यं पूर्वं राज्येऽस्मिन्कदापि न दृष्टम्। तस्माद्बृहत्समस्या उत्पन्नाः। बहुत्र जलनलिकासु जलं हिमीभूतम्। तस्माज्जलनलिका विदीर्णाः। तस्माज्जलन्न लभ्यते। अत्यधिकशैत्यवशाद्विद्युच्छक्तिनिर्माणयन्त्राणि क्षतिग्रस्तानि भूतानि। तस्माद्विद्युच्छक्तेरभावोऽभवत्। एतावत्पर्यन्तमस्मासु कापि विशेषक्षतिर्नापतिता। परन्तु यावद्यावज्जलनलिकासु हिमं द्रवीभूयते तावत्तावज्ज्ञास्यते यदि गृहे कयापि नलिकया क्षतिः प्राप्ता।
रविवार, 7 फ़रवरी 2021
श्वोऽवकाशः
कार्यालयाच्छ्वोऽवकाशो गृहीतो मया। पुत्रो विद्यालयेन दत्तान्पाठान्पठिता। अहं सङ्गणके तन्त्रांशाभ्यासङ्कर्तास्मि।
पादकन्दुकक्रीडा
अद्य कुटुम्बेन सह दूरदर्शने पादकन्दुकक्रीडा दृष्टा। पुत्रो वर्धते। अपि च क्रीडासु तस्य रुचिः। अतस्तेन सह मिलित्वा क्रीडामपश्यम्। तस्य माता स्वादुभोजनमपाक्षीत्। साँयकाल उत्तमरीत्यागमत्।
शुक्रवार, 5 फ़रवरी 2021
पुत्रस्य प्यानोवादनम्
आ द्वाभ्यां वर्षाभ्यां पुत्रः प्यानोपाठान्गृह्णाति। प्रत्येकषण्मासिकसत्रान्ते सर्वे छात्रा तेषाङ्कौशलं प्रदर्शयन्ति। बुधवासरे साँयकाले तादृशं प्रदर्शनमभवत्। पुत्रेण तस्य सहपाठिभिश्च प्यानोवादनङ्कृतम्। करोणावशात्सर्वं सङ्गणकेन कारितम्। सर्वैरुत्तमं वादनङ्कृतम्। घोरपरिश्रमस्य परिणामोऽयम्।
तन्त्रांशे रुचिः पुत्रस्य
प्रतिरात्रिं तन्त्रांशं रचयामि। येषां विषयानां विषये तन्त्रांशं लिखामि तान्पुत्रः सरलतयावगन्तुं शक्नोति। तस्मात्तस्य रुचिस्तन्त्रांशे वर्धते। मोदावहो विषयोऽयम्।