शनिवार, 12 जून 2021

कार्यालयङ्गन्तव्यम्

परह्यो मम कार्यालयोऽसूचयद्यत्सप्टम्बरमासादारभ्य कार्यालयमागन्तव्यम्। गृहादेव कार्यङ्कुर्यामिति ममाद्यता। परन्तु कार्यालयः सप्ताहे द्वयोरदिनयोर्गृहात्कार्यङ्करणायानुमतिमादात्। तस्माद्धहर्षितोऽस्मि।

शुक्रवार, 11 जून 2021

आदिनं शेते

क्रीतो हेम्स्टरो नैशजन्तुः। स आदिनं शेते। रात्रौ जागर्ति। अतो दिने तेन सह विरलतयैव व्यवहरामः।

बुधवार, 9 जून 2021

सञ्चालकेन सह समभाषे

ह्योऽस्माकं संस्कृतकेन्द्रस्य सञ्चालकेन सह समभाषे। अहङ्ग्रीष्मकाले कृदन्तरूपाणि पाठयिष्यामि। स शरदर्तौ वर्त्स्यामानान्वर्गान्कल्पयति। सोऽवदद्भवता शरदर्तावपि वर्गः पाठयिष्यते। श्रान्तो मा भूरिति। आवश्यकतास्ति चेद्ग्रीष्मकाले वर्गं मा पाठय। मह्यं पाठनं रोचते। अनेन संस्कृतसम्भाषणायावसरो लभ्यतयित्यहं तमसूचयम्।

मंगलवार, 8 जून 2021

'स्टोऽवे'

'स्टोऽवे' इति चलचित्रमवीक्षे। मनोरञ्जकञ्चलचित्रम्। पृथ्व्या मङ्गलग्रहं गच्छन्तस्त्रयो जना विदन्ति तेषां यानेऽन्यजनोऽप्यस्ति। स कश्चन कर्मकरः। यानस्य प्राणवायुयन्त्रं भग्नञ्जातम्। केवलं द्वाभ्याञ्जनाभ्यां प्राणवायुरवशिष्टा। तदा ते किङ्कुर्युरिति दर्शितम्। चलचित्रस्य केचनांशा निन्दनार्हाः परन्त्वाहत्य सम्यक्चलचित्रमस्ति।

रविवार, 6 जून 2021

हेम्स्टरः कन्दुके

हेम्स्टरस्य पञ्जरं प्रतिसप्ताहं मार्जनीयम्। मलमूत्रपर्युषितभोजनादिन्यपसारणीयानि। मार्जनकाले हेम्स्टरः कुत्रापि स्थापनीयम्। तत्कृते कन्दुकमेकङ्क्रीतम्। तत्कन्दुकं हेम्स्टरायैव। तं तस्मिन्कन्दुकेऽस्थापयाम। स तस्मिन्कन्दुके गृहे भ्रमितुं शक्नोति। कन्दुकाद्बहिरपि द्रष्टुं शक्नोति यतः कन्दुकं पारदर्शि। अनेन तस्मै वातावरणं परिवर्तते। आजीवनं स पञ्जरे तिष्ठेदिति भावना नागच्छेत्। सम्प्रति वयं तं स्प्रष्टुं शक्नुमः। गच्छता कालेन सोऽस्माकं हस्तेष्वागच्छेदित्याशास्ति।

बुधवार, 2 जून 2021

नूतननियन्त्रकं स्थापितम्

ह्य आवां नूतनवातानुकूलयन्त्रनियन्त्रकमस्थापयाव। शुभवार्तेयं तेन नियन्त्रकेन यन्त्रं पुनः सम्यक्तया कार्यङ्करोति। उपरितने स्तरे पुनश्शीतवायुर्लभ्यते।

मंगलवार, 1 जून 2021

यदि हेम्स्टरो वदेत्

क्रीतस्य हेम्स्टरस्य जीवनङ्कथमिति चिन्तयामि। वयं तस्मायुत्तमजीवनं दानाय प्रयतामहे। तेन भोजनन्न सङ्ग्रह्यतां यतोऽस्माभिर्दीयते। कोऽपि तं भक्षयिष्यतीति भीतिरपि न तस्मै। तद्दृष्ट्या तस्य जीवनमुत्तमम्। परन्तु स आजीवनं पञ्जरे स्थास्यति। अहञ्जानेऽहङ्कदापि स्वातन्त्र्यं त्यक्त्वा निश्शुल्कभोजनं सुरक्षाञ्च ग्रहीतुन्नेषिष्यामि। तर्हि तं पिपृच्छिषामि यदि स स्वातन्त्र्यमिच्छति पञ्जरे सुरक्षितभोजनान्वितजीवनं वा?