मदीये द्वे प्रिये गीते यूट्यूब्जालस्थाने पश्यामि। तयोर्गीतयोर्द्वाभ्यां भिन्नाभ्याञ्चलचित्राभ्यां प्रकरणानि दर्शितानि। गीते दृष्ट्वा तच्चलचित्रे द्रष्टुं मनसीच्छागता। गतेषु दिनेषूभे चलचित्रे दृष्टे। चलचित्रमेकमुत्तममासीत्। अन्यत्किञ्चिन्निराशजनकमासीत्। तथाप्युभे चलचित्रे दृष्टयिति सन्तोषः।
रविवार, 14 नवंबर 2021
गीते दृष्ट्वा द्वे चलचित्रे
जन्मदिवसोत्सवायागच्छाम
ह्यो मम भार्याया मित्रस्य पुत्रस्य जन्मदिवसोत्सवायागच्छाम। उत्सवोऽन्यस्मिन्नगरयासीत्। अतः श्वः पञ्चघण्टाभ्यो वयङ्गृहे नासम। आश्चर्यं नाम तथाप्यहं बहूनि कार्याणि कर्तुं समर्थः। वादनयन्त्राभ्यासमकरवम्। घण्टां यावच्शयनमकरवम्। चलचित्रैकस्यार्धभागमपश्यम्। सन्दर्शनाभ्यासाय द्वे समस्येऽप्यकरवम्। पञ्चघण्टाभ्यो बहिर्गत्वापीयन्ति कार्याणि कर्तुं समर्थोऽभवमिति आश्चर्यमनुभवामि। परन्तु पीठवेदनावशाद्वयायामन्नाकरवम्।
शनिवार, 6 नवंबर 2021
श्वो वर्गो न भविता
श्वः संस्कृतवर्गो न भविता। छात्रा दीपावलीपर्वणेऽवकाशमयाचन्त। दीपावली गुरुवासरयासीत्। वर्गा रविवासरे भवति। किमर्थं वर्गे नागन्तुं शक्नुवन्ति न जाने।
शुक्रवार, 5 नवंबर 2021
गीतवादनाभ्यासः
नूतनगीतवादनाभ्यासः सम्यक्तया प्रचलति। घोरपरिश्रम आवश्यकः। एतस्मात्पूर्वमपि मदीयं प्रियगीतमेकमभ्यस्तम्। तत्कृतेऽपि प्रायस्त्रयः सप्ताहा आवश्यका आसन्। परन्तु तस्माद्गीतान्मम कौशलमवर्धत। एतस्माद्गीतादपि स वर्धेतेति मन्ये।
रविवार, 31 अक्टूबर 2021
तस्मै ददाम्यहम्
अन्तर्जाले कश्चन सज्जनोऽस्ति यो मह्यं गीतपाठान्निर्माति। पाठान्निर्मीय सोऽन्तर्जाले स्थापयति येनान्ये जना अपि तेभ्यः पाठेभ्यो लाभं प्राप्नुयुः। एतान्पाठान्स निश्शुल्कं रचयति। तस्य पाठेभ्यो मम वाद्ययन्त्रकौशलं वर्धते। मम प्रियतमानि गीतान्यपि वादयितुं शक्नोमि। एतस्मात्सज्जनाद्मया प्रभूतानन्तदो लब्धः। अतो निश्शुल्कं पाठान्स्वीकर्तुन्न शक्नोमि। आ षड्भ्यो मासेभ्यस्तस्मै प्रतिमासं किञ्चिद्धनं प्रेषयामि। परन्तु गते मासे स मह्यं द्वयोर्गीतयोः पाठौ निर्मितवान्। इमे गीते मह्यं रोचतेतमाम्। अतो द्वाभ्यां मासाभ्यामहं तस्मै द्विगुणितं धनं प्रेषयिष्यामि। यो जनो मह्यं प्रभूतानन्दं ददाति तस्मायहमपि किञ्चित्कर्तुं शक्नोमीति चिन्तयित्वा सन्तोषमनुभवामि।
रविवार, 24 अक्टूबर 2021
मध्याह्ने शयनन्नाकरवम्
अस्मिन्सप्ताहान्ते मध्याह्ने शयनन्नाकरवमुभयोर्दिनयोः। अहं रात्रौ सम्यक्तया शयन्न करोमि। सप्ताहे तु कार्यङ्करोमीत्यतो दिने शेतुन्न शक्नोमि। सप्ताहान्ते दिने शयनङ्करोमि। परन्तु तस्माद्रात्रौ निद्रावधिर्न्यूना भवति। अतः प्रयत्नङ्कृत्वा दिने शयन्नाकरवम्। तस्माद्रात्रौ निद्रा समीचीनतरा भवेदित्याशासे।
गुरुवार, 21 अक्टूबर 2021
भार्या विद्यालयङ्गन्ता
आगामिनि वर्षे त्रिमासेभ्यो भार्या विद्यालयङ्गत्वाङ्कपालनविद्यां लप्स्यते। तस्याः साम्प्रतिकोद्योगः सम्यगस्ति परन्तु तस्याः प्रबन्धको वेतनमवर्धयित्वा तस्यामधिकदायित्वङ्कार्यञ्च दद्यात्। अद्यत्वे कस्मिन्नप्युद्योगे स्वस्य कार्यङ्करणन्न पर्याप्तम्। ततोऽधिककार्यङ्करणायापेक्षा सर्वदास्ति। तस्या रुचिरङ्कविद्यायां वर्तते। तत्पठित्वाधिका उद्योगा लभ्येरन्। अतः सा विद्यालयङ्गत्वा तत्कौशलं प्रापणाय प्रयतिष्यते।