रविवार, 29 मार्च 2020
नवमासेभ्यः परस्तात्
आ नवमासेभ्यः प्रतिदिनं वाद्ययन्त्राभ्यासङ्कुर्वन्नस्मि। नवसु मासेषु षण्मासान् यावत् वादनपाठा अपि पठिता कस्माच्चिद्गुरोः। वादनकौशलं वर्धतयित्येतावत्पर्यन्तङ्कदापि नानुभूतम्। परन्तु गतयोः सप्ताहयोः कौशलवर्धनस्य भानञ्जातम्। यानि गीतानि मया बहुभ्यो मासेभ्यो न वादितानि तानि वादयामि चेत्, तेषु साकूता प्रगतिर्दृश्यते। एतावत्पर्यन्तङ्केवलं परिश्रमोऽनुभूतः, आनन्दो नानुभूतः। इदानीं यन्त्रवादने रमे। अनेन प्रगतिरितोऽपि वर्धेतेति मन्ये।
शनिवार, 28 मार्च 2020
पृष्ठस्थयुद्याने
अद्य प्रातःकाले गृहस्य पृष्ठस्थयुद्याने प्रातराशमभौक्ष्म। वातावरणमत्युत्तममभूत्। शीतलवायुरवाक्षीत्, पक्षिणः कलरवः श्रोतुमशक्यत। घण्टां यावदुपविश्य भोजनङ्खादन्तः समभाषिष्महि।
बुधवार, 25 मार्च 2020
वाद्ययन्त्राभ्यासोऽधिकायते
यतः करोनाविषाणुवशादद्यत्वे गृहेऽस्मि तस्मादधिकः समयो वर्तते। अनेनाद्यत्वे वाद्ययन्त्राभ्यासमाधिक्येन करोमि। अन्यच्च यत इदानीङ्गुरुर्नास्ति तस्मात् कोऽपि निर्बन्धोऽपि नास्ति। यानि गीतानि मह्यं रोचन्ते तेषामभ्यासङ्करोमि। पूर्वं यद्गीतं स ददाति स्म तदेवाभ्यासङ्करोमि स्म। सम्प्रति विषयेऽस्मिन् स्वतन्त्रतामनुभवामि। एतद्वादनकौशललाभायेत्याशासे।
मंगलवार, 24 मार्च 2020
सम्भाषावहे
आ चतुर्भ्यः सप्ताहेभ्योऽन्यस्मान्नगरात् कयाचित् सह संस्कृतेन सम्भाषे। सा संस्कृतसम्भाषणङ्कौशलञ्चिकीर्षति परन्तु तस्याः कुटुम्बस्तया सह संस्कृतेन न सम्भाषते। अतः सा मम साहाय्यमयाचत। अहमुत्साहेनाङ्गीकारमददाम्। अनेनावयोरुभयोः सम्भाषणकौशलं वर्धते। प्राय आवां साम्प्रतिकविषयान् कुटुम्बविषयांश्च चर्चयावः।
रविवार, 22 मार्च 2020
बिभेमि
करोनाविषाणुवशादद्यत्वे सर्वे भीताः। द्वे भये - रोगार्थिकस्थितिभ्याम्। अहमपि बिभेमि। मस्तिष्के बहूनि नाकारत्मकानि चिन्तनान्यागच्छन्ति विशेषता रात्रौ। बहूनामोद्योगच्युतिर्जाता। ममोद्योग एतावत्पर्यन्तमस्ति। यदि ममोद्योगच्युतिरपि भवेत्तर्हि गृहर्णङ्कथं दद्याम्? कानिचन मासानि यावद्दानाय धनमस्ति परन्तु यदि दीर्घकालं यावदुद्योगो न प्राप्येत तर्हि किं भविष्यति? जानाम्यहञ्चिन्तनमेतत्केवलं मदीयन्न परन्तु सर्वेषाम्। तथापि चिन्ता निवारयितुन्न शक्यते।
कारयानमचालिषम्
अद्य षड्दिनेभ्यः परङ्कारयानमचालिषम्। अद्यत्वे गृहादेव कार्यङ्करोमि, यावच्छक्यमन्तर्जालेन भोजनङ्क्रीडामि, पुत्रो विद्यालयन्न गच्छति, सर्वे भोजनालयाः काफ्यापणाश्च पिहिताः, इत्यतः कारयानस्योपयोगं न्यूनमभवत्। यदि कारयानं बहुदिनानि यावदेकस्मिन् स्थाने तिष्ठेत्तर्हि विद्युतकोशः क्षपितो भवेत्। अन्यच्च यानस्य चक्राण्यपि हानिं प्राप्तुं शक्नुयुः। तेषां परिभ्रमणमावश्यकम्। अतः साँयकाले कारयानं दशमैलमितायै यात्रायै मया नीतम् । किमपि विशिष्टस्थान्न गतम्, केवलं भ्रमयित्वा प्रत्यागमम्।
शनिवार, 21 मार्च 2020
खाद्यानाङ्क्रयणम्
करोनाविषाणुवशात् सर्वे गृहे स्थिताः। जनसमूहे न गन्तव्यमित्यादेशः। परन्तु भोजनन्तु क्रेतव्यमेव। यदि भोजनापणङ्गम्येत तर्हि तत्रत्यजनसम्मर्दवशाद्विषाणोः प्रापणस्य सम्भावना। अतोऽन्तर्जालेन खाद्यानि क्रेतव्यानीति वरम्। परन्त्वावामेव नैवञ्चिन्तयावः। सर्वेषां तादृशञ्चिन्तनम्। इत्यतोऽन्तर्जालेन क्रयणमपि दुष्करम्। ह्यो बहुयत्नात् परं द्वे क्रयणादेशावदद्व। एकमद्यागच्छेत्। अन्यच्छ्वः। आदिष्टेषु कति वस्तून्यागच्छेयुरिति द्रष्टव्यं यतो बहूनाङ्क्रयणादेशवशाद्वाहकजनानां वस्तूनाञ्चाभावः।
सदस्यता लें
संदेश (Atom)