गृहस्योपरितने स्तरे वातानुकूलयन्त्रं सम्यक्तया न कार्यङ्करोति। द्वयोः संस्थयोराहूय दर्शितम्। तयोः कार्यकर्तारोऽवदन्यन्त्रमेतत्पञ्चदशवर्षपुरातनम्। नूतनयन्त्रं स्थाप्यताम्। तदर्थं सार्धसप्तसहस्ररुप्यकाण्यवाश्यकानि। प्राय आगामिषु दिनेषु यन्त्रं स्थापयिष्यते। तस्मादुपरितेन स्तरे ग्रीष्मकालेऽत्यधिकोष्णता नानुभविष्यते।
शुक्रवार, 30 अप्रैल 2021
वातानुकूलयन्त्रं स्थाप्यताम्
शुक्रवार, 23 अप्रैल 2021
जन्मदिवस आचरितः
ह्यो भार्याया जन्मदिवस आचरितः। गृहेऽतिष्ठाम। रात्रौ भोजनालयाद्भोजनमानीयाभुञ्ज्महि। भार्या मधुरपिष्टकमपचत्। प्रतिवेशिन्यपि किञ्चिद्भोजनमददात्। आहत्य बहूनि स्वादूनि खाद्यान्यखादाम। अद्य ह्यश्च भार्या कार्यालयादवकाशमगृह्णीत परन्तु मया पुत्रेन च कार्यङ्कर्तव्यम्।
गुरुवार, 22 अप्रैल 2021
पृथ्वीदिवसः
अद्य पृथ्वीदिवसः। बहवो जनाः केवलमद्य पर्यावरणपृथ्वीविषये चिन्तयन्ति। बहवस्त्वद्यापि न चिन्तयन्ति। यदि पर्यावरणपृथ्व्यौ संरक्षणीये तर्हि प्रतिदिनञ्जागरुकतयास्माभिर्व्यवहर्तव्यम्। केवलमेकस्मै दिनाय व्यवहापरिवर्तनेन पृथ्व्या उद्धारन्न भवेत्।
भार्यापुत्राभ्यां मधुराल्पाहारः
भार्याया जन्मदिवसः। प्रातस्तमामुत्थायापणङ्गत्वा मधुराल्पाहारमलप्सि। तावमोदिषाताम्। अहं तस्यायुपायनवर्धापनपत्रादीनि न ददामि। तस्मादप्रयोजनकरीणि वसतूनि सङ्गृह्यन्ते। जन्मदिवसे तादृशानि वस्तूनि ददामि यानि भुक्त्वा लुप्यन्ते। तेषु भोजनं सर्वप्रथमम्। अपि च वयङ्कदापि प्रातःकाले मधुरखाद्यानि न भुञ्ज्महे। अतस्तावश्यचर्यचकितावभूताम्।
बुधवार, 21 अप्रैल 2021
नूतनप्रयोगः
पर्याप्तनिद्रा मह्यं दुर्लभा। कथं पर्याप्तनिद्रा प्राप्तुं शक्यतयिति सर्वदा मस्तिष्के गणना प्रचलति। एकः प्रयोग आरब्धः। रात्रौ निद्रायाः पूर्वमूर्जांशयुक्तभोजनञ्जग्ध्वा निद्रां गन्तव्यमिति प्रयते। तस्मान्निद्राधिका भवेदित्यहमूहे। गतनिशयोः स प्रयोगः सफलो जातः। षड्घण्टाभ्योऽधिका निद्रा प्राप्ता। दिने निद्राभावाच्छ्रान्तिन्नानुभवामि। एतदेव प्रवर्तिषीष्ट।
पर्यवेक्षको गतः
अद्यारभ्य सप्ताहान्तं पर्यन्तं मम पर्यवेक्षकः कार्यालयाद्गतः। तेनावकाशो गृहीतः। तस्मिन्गते सामान्यतः कार्यन्न्यूनायते परन्तु कार्यालये नूतनप्रकल्प आरब्धो मया। सप्तम्बरमासात्पूर्वङ्कर्तव्यः। मम पर्यवेक्षको मम कार्यकौशलमेतं प्रकल्पमधीकृत्य मास्यति।