शनिवार, 31 दिसंबर 2022

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ९

अथ नवमाध्यायस्य पाठ:।

विकल्पानां प्राचुर्यं निर्णये विलम्बमानयति। अवरविकल्पान् त्यक्त्वान्ये विकल्पाः समानाः सन्ति चेत्तेषु कमप्येकं चित्त्वानिर्णयः शीघ्रं करणीयः। समानेषु विकल्पेषु समधिकसमय व्ययते चेत्समयो व्यर्थो भवति तस्य कोऽपि लाभो नास्ति।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ८

अथाष्टमाध्यायस्य पाठ:।

हस्तगतानां वस्तूनां मूल्यं वयमाधिक्येनोहामहे। तानि वस्तूनि यदान्यैर्न्यूनमूल्येन भाव्यन्ते तदास्मभ्यं न रोचते। वस्तुतो वस्तूनां स्वामित्वात् प्रयोगाच्चैव वयं चिन्तयाम एतेषां वस्तूनां मूल्यमधिकमिति। परन्त्वन्येभ्यस्तानि वस्तूनि साधारणवस्तून्येव। अतो हस्तगतानि वस्तूनि साधारणवस्तूनीव द्रष्टव्यानि यस्मात्तेषां मूल्यविषयेऽवास्तविकापेक्षा न भवेत्।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ७

अथ सप्तमाध्यायस्य पाठः।

कार्यं स्थगयित्वाधुना मनोरञ्जनमिति मानवस्वरूपम्। विशेषतः समस्या नावधीयन्ते चेत्ता न व्यपयान्ति। ता गुरुतरा भवन्ति। स्वनियन्त्रेण कार्यस्थगनवव्यवहारो निवारणीयः।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ६

अथ षष्ठाध्यायस्य पाठः।

भावुकस्थितौ वयं भिन्नतया निर्णयान् कुर्मः। यद्यपि दैनन्दिनजीवने वयं नैतिकमार्गे चरामस्तथापि भावाविष्टकाले वयं नैतिकमार्गं त्यक्त्वानैतिकमार्गं गन्तुं शक्नुमः। केवलं गन्तुं शक्नुमो न, गच्छामः। अतो भावुकस्थितौ निर्णयविषये विशेषावधानं देयम्।

शुक्रवार, 30 दिसंबर 2022

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ५

अथ पञ्चमाध्यायस्य पाठः।

यदि विनिमये धनं नास्ति तर्हि सामाजिककल्याणाय वयं चिन्तयामः। यदि विनिमये लेशमात्रमपि धनमस्ति तर्हि वयं सामाजिककल्याणममुपेक्ष्य न्यूनव्ययस्य यावच्छक्यं तावन्तं लाभमर्जयितुं प्रयतामहे। अतः सामाजिककल्याणविषयेषु धनमत्यवधानतया प्रतिपादनीयम्।


प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ४

अथ चतुर्थाध्यायस्य पाठः।

विनिमयो द्विविधः। आर्थिकः सामाजिकश्च। यत्र सामाजिकविनिमयोऽपेक्षितस्तत्रार्थिकविनिमयः क्रियते चेदसमीचीनम्। विनिमये धनं भिन्नापेक्षामानयति। अन्यच्च यत्र धनं नापेक्षितं तत्र दीयते चेज्जना अनादरमनुभूय बहुकालं यावत्स्मरेयुः। अत एनयोर्विनिमयोर्मिश्रणं न करणीयम्।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ३

अथ तृतीयाध्यायस्य पाठः।

निश्शुल्कवस्तुन आकर्षणमियदस्ति यस्मात् समीचीनतरं न्यूनशुल्कयुतं वस्तूपेक्ष्य वयं निश्शुल्कवस्त्वेव गृह्णीमः। बहुशो निश्शुल्कवस्तुन आवश्यकतैव नास्ति। कदाचिन्निश्शुल्कवस्त्वस्मभ्यं न रोचते। तथापि न्यूनशुल्कयुतवस्तु वर्जयित्वा निश्शुल्कवस्तु गृह्यते। तादृशं न करणीयम्। निश्शुल्कवस्तुनः सर्वदा चयनं सम्यङ्नास्ति। आर्थिकदृष्ट्या द्व्योर्वस्तुनो किं वस्तु लाभकरमिति दृष्ट्वा चयनं करणीयम्।