बुधवार, 1 मार्च 2017

संस्कृतेन किमर्थम्?

को बुद्धिमान्व्यक्तिरन्तर्जाले संस्कृतेन जालवृत्तिं रचयति? अहमयं प्रश्न एकेन तर्केण दत्त्वा विवादं समाप्तुं शक्नोमि। हि मह्यं रोचते न कापि हानिश्चेति। परन्त्वहमस्मिन् विषयेऽधिकञ्चिकथयिषामि। कश्चन जनो मदीयञ्जालवृत्तिम्पठेद्वा नेति चिन्ता मां न बाधते। अहं संस्कृते प्रवाहवाची बुभूषामि। कस्याञ्चिद्भाषायां प्रवाहेण वक्तुं तस्यां भाषायामन्यैस्सह सम्भाषणमतीवानिवार्यम्। संस्कृतेन भाषमाणा जना विरलाः। अतो लेखनमेव मम विकल्पः। केवलमिदङ्कारणं न। संस्कृतभाषा तस्या व्याकरणञ्चातीव सुन्दरे प्रफुल्ले च। संस्कृतपत्रिकासु वार्तापत्रेषु च भाषाया विस्तरेण सौन्दर्यं प्रफुल्लत्वञ्च न दृश्येते। हि पत्रिका वार्तापत्राणि च संस्कृतभाषा जनेषु लोकप्रियङ्कारयितुँय्यत्नाः कुर्वन्ति। अतस्तेषु सरला भाषैवोपयुज्यन्ते। सन्धिरपि सम्यङ्नास्ति। कदाचिदुपयुज्यते कदाचिन्नोपयुज्यते। दशसु लकारेषु केवलं षड्लकारा दृश्यन्ते। लिड्लुङ्लुडार्शीलिङ्लकारा न दृश्यन्ते। सर्वेषु कृदन्तप्रत्ययेषु न्यूनतमाः प्रत्यया दृश्यन्ते। अहङ्कठिना भाषा प्रयुयोजयिषाम्येषा स्थितिर्नास्ति। किन्त्वहं भाषया दत्तानि सर्वाण्युपकरणानि लेखनं शोभयितुँय्यथातत्त्वङ्कथयितुमिच्छामि। अत एषा जालृत्तिस्संस्कृतयेव स्थास्यति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें