शनिवार, 20 मई 2017

सन्धिर्न प्रयुज्यते

प्रतिमासमहं सभ्भाषणसन्देशसञ्चिकामुत्साहेन पठामि। काले काले सञ्चिकायां भाषाया व्याकरणस्य साधुतामधिकृत्य लेखा दृश्यन्ते। एप्रलिमासीयेऽङ्के 'शब्दसाधुताविषये अवधानम्' लेखे सम्पादकस्य व्याकरणविषयेऽवधानं प्रार्थनाञ्चापठ्यताम्। 'भाषापाकः' इति लेखेनापि सर्वदा व्याकरणज्ञानमधिगम्यते। परन्तु सञ्चिकायां नितरां सन्धिप्रमादः किमर्थं दृश्यत इति मया नावगम्यते। सन्धिर्व्याकरणस्यैव भागः। तत्किमर्थं सञ्चिकायां सन्धेरुचितप्रयोगं न क्रियते? काश्चन सन्धयो विकल्पेन विहिताः। ता नोपयुज्यन्तेऽस्मिन् कापि न हानिः। परन्तु काश्चन सन्धयो नित्यं विहिताः। ताः प्रयोक्तव्याः। सन्धियुक्ता लेखा पाठकान् कष्टाः प्रस्तूयन्त इति श्रूयते। परन्तु सन्धिर्व्याकरणस्याल्पभागः। ये जनाः संस्कृतव्याकरणमध्येतुं प्रयतन्ते ते सन्धिमपि पठितुं शक्नुयुर्ननु?

2 टिप्‍पणियां:

  1. यत् भवान् लिखति तत् अहम् अनुमोदे। मासदृशाः संस्कृतं शिक्षमाणाः छात्राः यदि सन्धिं कृत्वा न लिखन्ति तर्हि ते क्षमार्हाः। किन्तु भवासदृशाः विद्वांसः सन्धिं कृत्वा एव लिखेयुः यस्मात् वयम् अपि सन्धिप्रक्रियां शिक्षे। धन्यवादः।

    जवाब देंहटाएं