शनिवार, 5 जनवरी 2019

जन्मदिवसोत्सवाय गच्छाम

अद्यात्मजस्य मित्रस्य जन्मोत्सवाय गच्छाम। उत्सवो मध्याह्ने प्रचलिष्यति। तेन पुत्रेणापराह्णकालीननिद्रा न लप्स्यते। स तु कदापि मध्याह्नतनीं निद्रान्न चिकीर्षति। अतः स प्रहृष्टः। अद्य तेन निद्रा न करणीयेति स आप्रातर्निजागदीति। एकवादनेऽस्माभिर्गन्तव्यम्। त्रिचतुर्वादने प्रत्यागन्तव्यम्।

शुक्रवार, 4 जनवरी 2019

उद्गच्छन्ती रुधिरनिपीडा

मम रुधिरनिपीडा शनैः शनैरुर्ध्वङ्गच्छति। निपीडायारुभयोः परिमाणयोरुच्चस्थं परिमाणं तु सम्यगस्ति (प्रायः शत मि.मि. पारदः)। निम्नस्थं परिमाणमधिकायते। इदानीं तद्द्वयशीतिः मि.मि. पारदोऽस्ति। दशवर्षेभ्यः पूर्वं सा सङ्ख्यैवाधिकनवत्यासीत्। तेन जनितेन साध्वसप्राप्तोऽहं प्रतिदिनं दशसहस्रपदन्यासङ्करोमि स्म। फलता रुधिरनिपीडा पुनः सामान्या जाता (सप्तसप्ति मि.मि. पारदः)। अद्यत्वे प्रतिदिनं तु दशसहस्रपदन्यासन्न करोमि परन्तु न्यूनातिन्यूनं मैलद्वयँय्यावच्चलामि (दशडिगरीपरिमितमुत्कूलम्)। व्यायाममपि करोमि। मम भारोऽप्यति सामान्यः प्रकृतिस्थश्च। तर्हि किमर्थं रुधिरनिपीडा वर्धते? प्रतिदिनङ्कथमपि किञ्चित्कालाय हृदयस्पन्देऽभिवृद्धिः करणीयम्। प्रतिदिनं स्वल्पकालायापि द्रुतहृदयस्पन्द उपकारकः। स्यान्नाम तस्माद्रुधिरनिपीडा खर्वीभवेत्।

नैशाहाराय गता

भार्या नैशाहाराय सखीभिः सह गता। बहोर्दिनेभ्यः परस्तादेतादृशायावसराय सा गता। सामान्यतः सुतं रात्रौ सैव स्नापयति। अद्य मया स स्नापनीयः।

कार्यालयमागमम्

अद्य सप्ताहद्वयस्यानन्तरङ्कार्यालयमागमम्। गतकतिपयेभ्यो दिनेभ्यो गृहादेव कार्यमकरवम्। अद्य पुत्रेण सह तस्य माता गृहेवस्थिता। प्रातःकाले सर्वे विलम्बेनाजागरिषुः (प्रायः सपादसप्तवादने)। अहं तु कदापि एतावता विलम्बेन न जागर्मि। तनयस्य विद्यालयविरामकारणात् प्रातःकाले प्राचुर्येण समयोवर्तिष्ट। अतो निरुद्विग्नतया कार्यालयाय प्रयाणसन्नद्धोऽभूवम्। अद्य शुक्रवासरः। इति हेतोर्वाहनसञ्चारोऽपि न्यूनोऽभूत्। अथ पुनर्दिनद्वयस्य विरामः। इमं विरामकालमुपभुञ्ज्य मुदितोऽहम्।

बुधवार, 2 जनवरी 2019

कार्यालयाद्विरामः

द्वाभ्यां दिनाभ्याङ्कार्यालयाद्विरामः स्वीकृतो मया। पुत्रस्य विद्यालयः शीतविरामस्य निमित्तं पिहितः। अत आवयोरेकेन तेन सह गृहे स्थातव्यम्। बुधवासरे गुरुवासरे चाहं स्थातास्मि। शुक्रवासरे मङ्गलवासरे च तस्य माता स्थाता। केवलं सप्ताहचतुष्टयँय्यावद्विरामदिनानि सम्पादयितुं शक्यन्तयिति ममोद्योगदात्र्याः संस्थाया नियमः। ततःपरं विरामदिनानि न परिचीयन्ते। मम विरामदिनानाङ्गणना चतुस्सप्ताहावधिमुपैतीत्यतो मया शीघ्रं विरामस्तु स्वीकरणीय एव। तदर्थमयमवसरो सम्यगस्ति।

दन्तचक्षूनां निरीक्षणे

अद्य दन्तचक्षूनां निरीक्षयोः समयो निर्धारितो मया। आ केभ्यश्चिद्वर्षेभ्यस्तेषां वैद्येन निरीक्षणे न कारिते। यथा यथा वयो वर्धते तथा तथा दृष्टिः क्षयति। तयोरानारोग्यस्य विषये चिन्ता मां बाधते। अतश्चक्षुषोर्निरीक्षणमत्यावश्यकम्। अनुवैद्यया दन्तानां प्रक्षालनमप्युपकारकम्। एते निरीक्षणे कारयित्वेषन्मानसिकशान्तिं प्राप्नुयाम्।

मंगलवार, 1 जनवरी 2019

वसन्तर्तुवर्गः-२०१९-०

जनवरीमासस्य विंशतिदिनाङ्कादारभ्य द्वितीयस्तरीयः संस्कृतवर्ग आयोक्ष्यते। यद्यपि नूतनपुस्तकं स्वीकृत्य पठिष्यामस्तथापि तस्मिन् पुस्तके सर्वे विषयाः पूर्वपठिताः। छात्रैर्नैरस्यन्नानुभूयेत तदर्थङ्केचन नूतनविषया नैयत्येन पाठनीयाः। तादृशा विषया अत्र सङ्गृह्यन्ते -

१. ‘अकारान्त’, ‘ईकारान्त’ शब्दानां बहुवचनम्
२. भवान्, भवती शब्दयोर्बहुवचनम्
३. विविधानि क्रियापदानि
४. गृहस्थानाँव्वस्तूनां नामानि
५. निशचयेन, मन्दगत्या, सहर्षम् एतादृशानामव्ययानां निर्माणविधिः
६. चित् / चन
७. ‘इकारान्त’, ‘उकारान्त’, ‘ऋकारान्त’ शब्दाः
८. ‘नकारान्त’, ‘तकारान्त’ शब्दाः
९. सर्वनामानां बहुवचनम् (अस्मद्, युष्मद्, तद्, यद्, एतद्, किम्, सर्व)
१०. विशेषणविशेष्यभावः
११. उपसर्गाः
१२. कति / कियत्
१३. आत्मनेपदिनो धातवः
१४. सङ्ख्या (एकः, एका, एकम् इत्यादयः)
१५. मूलशब्दानामभिज्ञानम्