बुधवार, 2 फ़रवरी 2022

नवपञ्चाशदधिकशतम्

सन्दर्शनसन्नाहाय प्रतिदिनङ्कस्मिंश्चिज्जालस्थाने तन्त्रांशाभ्यासङ्करोमि स्म। तज्जालस्थानं प्रतिवर्षं नवपञ्चाशदधिकशतं रूप्यकाणि शुल्कङ्गृह्णाति। शुल्कगृहणतिथिरासीत्त्रिंशज्जनवरी। मम सन्दर्शनं एकफेबररीदिनाङ्के समपद्यत। यतः सम्प्रति नूतनसंस्थयोद्योगो न दत्तस्तथापि भावयामि तयोद्योगो दीयते यतः पञ्चसु सन्दर्शनेषु मयोत्तमं प्रदर्शनङ्कृतम्। अत इतः परं तज्जालस्थानस्यावश्यकता न भवेदिति मन्ये। तर्हि नवपञ्चाशदधिकशतं रुप्यकाणि व्यर्थानि जातानि। नवविंशति दिनाङ्के मम ग्राहकताया निरसनङ्कुर्यामिति मया चिन्तितमासीत्परन्तु तस्मिन्कुर्वति कया संस्थया के प्रश्नाः कतिवारमपृच्छयन्तेति द्रष्टुन्न शक्यते। अतो ग्राहकताया निरसनं न कृतम्। तर्हि केवलं द्वाभ्यां दिनाभ्यां मया नवपञ्चाशदधिकशतं रुप्यकाणि दत्तानि।

मंगलवार, 1 फ़रवरी 2022

सन्दर्शनं समपादि

आ वर्षात्सन्दर्शनाय बृहच्छ्रमङ्कुर्वन्नासम्। ह्योऽद्य च सन्दर्शनमासीत्। उत्तमतया तत्सन्दर्शनमभूत्। संस्थयोद्योगो दीयतयिति भावयामि। कियति वेतनयिति द्रष्टव्यम्।

शुक्रवार, 21 जनवरी 2022

प्रकल्पः

गते वर्षे कार्यालये पदोन्नतये प्रायते। तदवसरे किञ्चिदधिककार्यङ्कर्तव्यं यस्माज्जना मम नाम जानीयुरिति परीक्षकेण सूचितमासीत्। ते जना मम विभागस्य भवेयुरिति वरम्। तदाधारीकृत्य कश्चन प्रकल्प आरब्धो मया। परन्तु प्रकल्पे प्रचलति मया ज्ञातं यत्प्रकल्पोऽयमप्यन्येषु दलेष्वलम्बितः। बृहत्संस्थासु तादृशी स्थितिः सामान्या। अतः पदोन्नतये हानिकरिणी लाभकरिणी वा भवेदिति द्रष्टव्यम्।

शनिवार, 15 जनवरी 2022

पुत्रो विद्यालयङ्गच्छति

करोनाप्रकोपः प्रचलत्यपि विद्यालयो बालान्विद्यालयमाह्वयति। अस्मिन्सत्रेऽन्तर्जालेन न पाठयिष्यतयिति विद्यालयेन सूचितम्। प्रतिदिनङ्केचन बाला विद्यालये करोनाप्राप्नुवन्तीति विद्यालयः सूचयति। पुत्रः स्वस्थं स्थेयात्।

शनिवार, 8 जनवरी 2022

प्रकल्पो निरस्तः

कार्यालये कस्मिँश्चित्प्रकल्पे कार्यङ्कुर्वनासम्। अहमेक एव कार्यङ्करोमि स्म तस्मिन्प्रकल्पे। गुरुवासरे स प्रकल्पः प्रबन्धकेन निरसीकृतः। स प्रकल्पः कस्यचिद्दीर्घप्रकल्पस्य लघुरूपमासीत्। तस्य कृतेऽर्धावधिरावश्यक्यासीत्। परन्तु लघुरूपस्य प्रयोजनं सीमितमासीत्। तस्मात्प्रबन्धकेन प्रकल्पस्य निरसनस्य निर्णयः कृतः। निरसनाद्मयि द्वैधीभाव उद्भूतः। तेन प्रकल्पेनाहं नूतनकौशलानि सम्पादयन्नासम्। परन्तु तत्प्रकल्पकार्येषु मम कौशलन्नासीतित्यतो घोरपरिश्रमङ्कुर्वन्नासम्। तेन महच्छ्रान्तिर्जायते स्म। तत्प्रकल्पस्थाने तस्य दीर्घरूपङ्करणीयमिदानीम्। दीर्घरूपं मन्दगत्या प्रचलेदिति मन्ये। तस्मान्नवकौशलमपि न प्राप्नुयामिति चिन्तापि बाधते। परन्तु गिटारवादनाभ्यासमधिकतया कर्तुं शक्नुयामित्याशासे।

सोमवार, 3 जनवरी 2022

सञ्चालकमागमत्

अद्य मम नगरसंस्कृतकेन्द्रस्य सञ्चालक आगमत्। केभ्यश्चिद्मासेभ्योऽहं संस्कृतवर्गं पाठयितुन्न शक्नोमीत्यहं तमसुसूचम्। स सार्धद्विघण्टा यावत्स्थित्वा मया सह समभाषिष्ट चायपानमप्यकार्षीत्। तेन सह सम्भाषणङ्कृत्वाहममोदिषि।

शनिवार, 1 जनवरी 2022

उपनववर्षरात्रिः

ह्या रात्रावावां द्वादशवादनपर्यन्तं जागृतौ। सामान्यत आवां तावत्पर्यन्तं न जागृवः। परन्तु ह्यः कथञ्चित्तदभवत्। स्वादुभोजनं मधुराणि चाखादाव। पुत्रस्तस्य मातामह्या गृहयासीत्। अद्य प्रातःकालयागमत्।