पात्रक्षालनयन्त्रमावश्यकमिति मया पूर्वं लिखितम्। यन्त्रेकमावाभ्यां रोचते। ह्योऽन्तर्जाले तस्य मूल्यं नवचतुर्दशाधिकषट्शतमासीत्। दर्शनेन विना क्रेतुन्न शक्यतयित्यतो न क्रीतम्। ह्यः साँयकाले पात्रक्षालनयन्त्रं दर्शनायापणमगच्छाम। यद्यन्त्रं द्रष्टुं वयमिष्टवन्तस्तदापणे नासीत्। अद्य तस्य मूल्यमन्तर्जाले सप्तत्रिंशदधिकसप्तशतं दृश्यते। अत इदानीङ्क्रीयते चेदष्टाशीतिरधिकं मूल्यं देयम्।
रविवार, 6 फ़रवरी 2022
अष्टाशीती रुप्यकाणि
शनिवार, 5 फ़रवरी 2022
कार्यालमगच्छत्
ह्यो मध्याह्ने भार्या कार्यालयमगच्छत्। दिने सूर्यो मेघाभ्यो बहिरागच्छत्। तेन रथ्यासु संशीतजलस्यापाय प्रायो गतः। द्वादशवादने गत्वा सार्धचतुर्वादने सागता। कार्यालये कर्तव्यङ्कार्यं वर्धमानमासीत्। ह्यो गत्वा तत्कार्यराशिः किञ्चिन्नियन्त्रणयागच्छदिति सासूचयत्।
पात्रक्षालनयन्त्रं भग्नम्
पात्रक्षालनयन्त्रं भग्नम्। पूर्णतया न। कार्यङ्करोति परन्तु बहुवारं प्रयत्नङ्कृत्वैव कार्यङ्करोति। प्रतिदिनं भार्यया तेन सह स्थातव्यम्। स चलति, परन्तु केषाञ्चिन्निमेषानामनन्तरं स्वयमेव विरमति। तत्काले पुनरारब्धव्यम्। तस्य नियन्त्रणपरिपथि दोष आगत इति मन्ये। तस्य समीकरणविषये चिन्तयावः परन्तु समीकरणे प्रायस्त्रिशतं रुप्यकाणि व्ययितव्यानीत्यूहावहे। सप्तत्रिशतं रूप्यकाणि व्ययित्वा नूतनयन्त्रं प्राप्तुं शक्यते। यद्यप्यावां तस्य समीकरणायेच्छावस्तथापि नूतनयन्त्रक्रयणमेव वरं यतः त्रिंशत्प्रतिशतं व्ययङ्कृत्वापि तद्यन्त्रं तु पुरातनमेव स्थास्यति। न्यूनातिन्यूनं तद्यन्त्रमुपदशवर्षपुरातनमस्ति। तर्हि त्रिगुणितरुप्यकाणि व्ययित्वा नूतनयन्त्रक्रयणमेव वरम्।
शुक्रवार, 4 फ़रवरी 2022
प्रायोऽद्य गन्तव्यम्
संशीतवर्षा समाप्ता। अतोऽद्य मध्याह्ने भार्या कार्यालयङ्गमनाय प्रयतिष्यते। न गन्तव्यमिति मम मतो यत इतोऽपि रथ्यासु संशीतजलं वर्तते। अद्य न गमिष्यति चेत्सप्ताहान्ते गन्तेति मन्ये।
गुरुवार, 3 फ़रवरी 2022
संशीतवर्षा पतति
आ रात्रि संशीतवर्षा पतन्त्यासीत्। तस्माद्रथ्यासु संशीतजलं सञ्चितम्। वाहनस्खलनस्य सम्भावना वर्धमानास्ति। भार्यामग्रहमकृषि कार्यालयन्न गन्तव्यमिति। कार्यञ्जीवनापायस्य कारणं मा भूयात्। केषाञ्चित्सज्जनानां वृत्तयो सन्ति या अनिवार्याः। तैर्जनैर्गन्तव्यमेव। परन्तु मदीयाया भार्याया वृत्तिस्तादृशी नास्ति। अतस्तया गृहे स्थातव्यम्। दैवात्सा सहमन्ये। अतः सा गृहयस्ति। पुत्रस्य विद्यालयेनाप्यवकाशो दत्तः।
बुधवार, 2 फ़रवरी 2022
नवपञ्चाशदधिकशतम्
सन्दर्शनसन्नाहाय प्रतिदिनङ्कस्मिंश्चिज्जालस्थाने तन्त्रांशाभ्यासङ्करोमि स्म। तज्जालस्थानं प्रतिवर्षं नवपञ्चाशदधिकशतं रूप्यकाणि शुल्कङ्गृह्णाति। शुल्कगृहणतिथिरासीत्त्रिंशज्जनवरी। मम सन्दर्शनं एकफेबररीदिनाङ्के समपद्यत। यतः सम्प्रति नूतनसंस्थयोद्योगो न दत्तस्तथापि भावयामि तयोद्योगो दीयते यतः पञ्चसु सन्दर्शनेषु मयोत्तमं प्रदर्शनङ्कृतम्। अत इतः परं तज्जालस्थानस्यावश्यकता न भवेदिति मन्ये। तर्हि नवपञ्चाशदधिकशतं रुप्यकाणि व्यर्थानि जातानि। नवविंशति दिनाङ्के मम ग्राहकताया निरसनङ्कुर्यामिति मया चिन्तितमासीत्परन्तु तस्मिन्कुर्वति कया संस्थया के प्रश्नाः कतिवारमपृच्छयन्तेति द्रष्टुन्न शक्यते। अतो ग्राहकताया निरसनं न कृतम्। तर्हि केवलं द्वाभ्यां दिनाभ्यां मया नवपञ्चाशदधिकशतं रुप्यकाणि दत्तानि।
मंगलवार, 1 फ़रवरी 2022
सन्दर्शनं समपादि
आ वर्षात्सन्दर्शनाय बृहच्छ्रमङ्कुर्वन्नासम्। ह्योऽद्य च सन्दर्शनमासीत्। उत्तमतया तत्सन्दर्शनमभूत्। संस्थयोद्योगो दीयतयिति भावयामि। कियति वेतनयिति द्रष्टव्यम्।