आ मासात्क्रिकेट्स्पर्धाया विश्वचषकः प्रचलति। स्पर्धाः पश्यामि परन्तु मध्यरात्रावरभन्ते। श्वोऽन्तिमस्पर्धा भविष्यति।
शनिवार, 18 नवंबर 2023
क्रिकेट्स्पर्धा
रविवार, 15 अक्टूबर 2023
सूर्यग्रहणमपश्याम
ह्यः सूर्यग्रहणमपश्याम। परह्यो भार्या सूर्यदर्शनोपनेत्राण्यक्रीणात्। प्रथमवारं सूर्यग्रहणं दृष्ट्वा पुत्रोऽमोदत। २०२४ वर्षस्याप्रैलमासे पुनः सूर्यग्रहणं भविता। तदापि द्रष्टास्मः।
शनिवार, 14 अक्टूबर 2023
नूतनोद्योगार्थं प्रयायत्ये
साम्प्रतिकोद्योगसंस्थां त्यजेयमिति बहुवारं चिन्तयामि। परन्तु संस्थया सर्वोत्तमवेतनं दीयतयित्यस्मात्त्यक्तुं न शक्नोमि। अधुना कार्यं न रोचतयेव। किञ्च यत्कौशलमोद्योगापणयेपेक्षयते तत्कौशलमस्यां संस्थायां न प्रयुज्यते। इत्यस्माद्वेतनह्रासं स्वीकृत्याप्योद्योगपरिवर्तेयेति चिन्तयामि। तेन कौशलवृद्धिर्भवेत्। इतोऽपि बहुभ्यो वर्षेभ्यः कार्यं करणीयं तर्हि नूतनकौशलनानि ग्राह्याणि।
शनिवार, 7 अक्टूबर 2023
श्वशुरावमेलिष्म
अद्य श्वशुरौ मेलनाय तयोर्गृहमगमाम। तयोर्गृहं पुत्रं प्रापय्य सङ्ग्रहालयमगमाव। तत्रत्या प्रदर्शिनी भार्यायै रोचते। तद्दृष्ट्वा पुत्रं श्वशुरगृहाल्लब्ध्वा पुनः स्वगृहमागमाम। सम्पूर्णदिनमेवं गतम्।
गुरुवार, 28 सितंबर 2023
संस्कृतवर्ग आरब्धः
संस्कृतवर्ग आरब्धः। गीतासोपानस्य द्वितीयभागस्यानुवर्तनं कुर्मः। एतत्पुस्तकं समाप्य पाठनाद्विरामं ग्रहीष्यामीति चिन्तयामि। आ षड्भ्यो वर्षेभ्यः पाठयन्नस्मि। सम्प्रति पाठनं न रमे।
नूतनकार्यं न रोचते
कार्यालये दलपरिवर्तनमकरवम्। नूतनकार्यं समधिकमस्ति। मह्यं न रोचते। अस्य दलस्य ग्राहका विश्वव्यापिनः। अतो कुत्रापि कदापि समस्या आगच्छेच्चेत्तेऽस्मानाह्वयेयुः। तस्मान्मध्यरात्र्यप्याह्वानमागच्छति। पूर्वतने दले ग्राहकाः केवलं केषुचिद्देशेष्वासन्। नववर्षयोद्योगपरिवर्तनं करवाणि। वर्षान्तयुद्योगपरिवर्तनो दुर्लभः।
गुरुवार, 7 सितंबर 2023
कारयानस्य नेमी
प्रतिवर्षं कारयानस्य परीक्षणं कारयितव्यम्। यानं सुरक्षतया चालयितुं शक्यतयित्यस्य निर्णयाय। यदि यानेन सुरक्षणपरीक्षा नोत्तीर्यते तर्हि कारयानं समीकृत्वा पुनः परीक्षा कारयितव्या। परीक्षायां यानस्याग्रिमे द्वे नेमी उत्तीर्णे नाभूताम्। ते जीर्णयास्ताम्। नूतने नेमी क्रीत्वा स्थापिते। तदनन्तरमेव यानं परीक्षामुदतरत्।