रविवार, 14 जनवरी 2018
उपानहौ
अद्य निर्मनस्कतयोपानहावक्रेषि। वस्तूनि क्रयणे ममास्कतिर्नास्ति। वस्तूनि गृहे मस्तिष्के च समयावकाशौ समाश्रयन्ति। मत्समीपे त्रीण्युपानह्युगलानि पूर्वमेव सन्ति। तथापि यात्रायै नूतनोपानह्युगलस्यावश्यक्तासीत्। एकयुगलं तु क्षयानमस्ति। तत्तु दशवर्षेभ्यः पूर्वमक्रीणि। द्वितीययुगलमपि सप्तवर्षेभ्यः पूर्वमक्रीणि। तत् साध्वावस्थायामस्ति परन्तु तद्धृत्वाधिकदूरञ्चलितुन्न शक्यते यतस्ते उपानहावौपचारिकस्थितौ धारयितुं स्तः। तृतीययुगलं स्वास्थायामस्ति। तस्मिन् बृहद्दूरमपि चलितुं शक्यते। परन्तु तस्य वर्णश्श्वेतः। ते उपानहावपि केभ्यश्चिद्वर्षेभ्यः पूर्वमलभे। इदानीन्तु तयोः श्वेतवर्णश्श्यामायते। क्षालङ्क्षालमपि स श्वेतवर्णस्तु कृष्णायते। ते गृहोपयोक्तुमेवार्हतः। गृहाद्बहिस्ते न मयि शोभेते। अतोऽनन्यगतिकतया नूतनोपानहोः क्रयणमपि मम विकल्पोऽभूत्। अतस्ते अद्याक्रेषि। ते आगमिष्यमानायाँय्यात्रायाङ्कार्यालये चोपयोगिनौ साधयिष्यतः।
शनिवार, 13 जनवरी 2018
विटामिन-डी
कतिभ्यो दिनेभ्यः प्रतिदिनमहं ‘विटामिन-डी’ औषधं सेवे । अस्माद्मम मनश्शान्तिर्वर्ततयिति भासते । रात्रौ मन्मस्तिष्के विचारा न्यूना जाता। मस्तिष्को विचारेषु सम्मर्दो न भवति। अमुष्मादहं रात्रावधिका होराः शयमानोऽस्मि। अहमाश्चर्यचकितोऽस्मि यत् ‘विटामिन-डी’ एतादृशं परिवर्तनङ्कर्तुं शक्नोति। सम्भवतो मयि ‘विटामिन-डी’ हीनतासीत्। कानिचन शोधकार्याणि दर्शयन्ति यत् ‘विटामिन-डी’ मस्तिष्कस्य निद्रायाश्च स्वास्थायानिवार्यं स्यात्। इदानीन्त्वेतद्मां सत्यं भासते। अद्यत्वे जनाः (अमीष्वहमपि समाविष्टः) सूर्यप्रकाशेऽधिकसमयो न यापयन्ति। तस्मात् तेषु गात्रेषु ‘विटामिन-डी’ हीनता जाता। मम विषये त्वेतदवश्यं सत्यम्। अहं सूर्यप्रकाशे बहुसमयो न यापयामि। ‘विटामिन-डी’ सेवित्वाद्यत्वेऽहं षषसप्ता होराः शययिति महान् सन्तोषजनकम्। दिनेऽप्यहं श्रान्तो न भवामि। सोत्साहं दैनन्दिनकार्याणि करोमि।
शनिवार, 30 दिसंबर 2017
रेलगन्तारौ
ह्यः सपुत्रा रेलयानेऽगच्छम्। रेलयानं प्रति मत्पुत्रस्य महत्यास्क्तिः। 'मां रेलयाने गमय' इति स बहुवारं पूर्वं मान्न्यवेदयत्। अस्मिन्नगरे सामान्यता रेलयानमवकाशदिनेषु न चलति। अतो यदा यदावयोः (मम मत्पुत्रस्य च) पर्वकारणेनावकाशो भवति तदा सर्वदा रेलयानस्यावकाशोऽप्यस्ति। अतस्तं रेलयाने गमयितुमवसरो न प्राप्नुवम्। अस्मिन् सप्ताहे कार्यालये बहवो जना अवकाशः प्राप्य कार्यालयादविद्यमानाः। तस्मात् कार्यालये बहुकार्यन्नास्ति। अस्यावसरस्योपयोगङ्करणीय इति मया चिन्तितम्। अतो ह्यः प्रातःकालयावां रेलयानेन नगरकेन्द्रमगच्छाव। तत्राल्पहारः कृत्वा पुना रेलयानेन गृहमाच्छाव। तस्मात् मत्पुत्रे महान् सन्तोषो जातः। तस्य मुखम दृष्ट्वैवेति लक्षितम्। मत्पुत्रस्य कृते काचिल्लघुक्रिया कृत्वैव पुत्रस्य मनो मोदयितुमशक्नवमिति विचिन्त्य महान् सन्तोषोऽन्वभवमहमपि।
बुधवार, 20 दिसंबर 2017
व्याकरणे सन्धेर्वैलक्षण्यम्
संस्कृतव्याकरणे सन्धिविषयो विलक्षणः। प्रायः सर्वे जना विषयोऽयं द्विषते। सन्धिनियमा बहवः। ते जटिलाश्च। विसन्धिना लिखिता लेखा न केवलमनायासेनावगन्तुं शक्यन्तेऽपितु सन्धिर्वर्तते चेत्पठनवेगोऽवरुध्यते। सन्धिः सर्वासु भाषासु भिन्नमात्रायां दृश्यते परन्तु तासु भाषासु सन्धिः केवलमनौपचारिकरूपेण वर्तते। स व्याकरणनियमेषु न समाविष्टः। संस्कृते सन्धिर्व्याकरणनियमेषु समाविष्टः। अतः स औपचारिकरुपेण पाठ्यते। यतः सन्धिरष्टाध्याय्याँल्लिखितोऽतः स त्यक्तुन्न शक्यते। संस्कृतमाधुनिककाले लौकिकभाषा नास्ति तस्मादेव सन्धिरद्य जीवति। यदि संस्कृतं पुनरलौकिकभाषा भवेत्तर्हि निश्चयेन कोऽपि सन्धिर्न प्रयुजयेत। तर्हि मया स किमरथं प्रयुज्येत? स मह्यं रोचते। स सुन्दरो मनोहरश्च। बहुषु नियमेषु के नियमाः प्रयोक्तव्या इति निर्णयकरणे सन्तोषमनुभवामि। मयि सन्धियुक्तशब्दाँल्लिखत्सु मन्मनो मोमुद्यते। सन्धेरभ्यासोऽपि प्राप्नोमि। अभ्यासेन सन्धिनियमा न विस्मरामि। इमे लेखा मदभ्यासस्य कृतयेव न त्वन्येषां पठनाय।
मंगलवार, 19 दिसंबर 2017
पदोन्नतिः
अद्य प्रातःकाले कार्यालयेऽहं मत्पर्यवेक्षकश्चामेलिष्व। मत्पर्यवेक्षको मामसूचयद्यद्यदि मह्यं पदोन्नतिं रोचते तर्हि मयाधिकङ्कार्यङ्कर्तव्यम्। अहं तमसूचयँय्यदहं पदोन्नतिन्नेच्छामि। केन कारणेन सोऽप्राक्षीत्। पदोन्नतिँल्लिप्सन्तो जना अहं प्रतिदिनं पश्यामि। पदोन्नतेः कृते कियत् कार्यङ्कुर्वते तदपीक्षेऽहम्। पदोन्नतेः कृते त्रिचतुरेभ्यो वर्षेभ्यो महत्कार्यङ्करणीयमिति संस्थाया अपेक्षा। एतत्तु मह्यन्न रोचते। अहं सर्वः समयः कार्यालयकार्ये मग्नो भवितुन्नेच्छामि। ममाभिरुचेः कुटुम्बस्य च कृतेऽपि समय इच्छामीत्यहं तमवोचम्। पदोन्नतेरपेक्षया त्वं प्रसन्नता सन्तुष्टिश्च महत्वं ददासीति मन्येऽहमिति सोऽवोचत्। तेन सत्यमेवोक्तम्। अयन्निर्णयः साध्वसाधु वेति काल एव कथयिष्यति।
अद्यतनजीवनं पुरातनजीवनम्
जीवने बहवः समस्या अस्मान् बाधन्ते। अमूः समस्या अधिकृत्य वयं बहुशः क्रन्दामः। कदा कार्यालये प्रोन्नतिं न प्राप्नुमः, कदा विद्युच्छक्तेर्मूलस्य वर्धनमस्मास्वसन्तोषो जनयति, कदा ज्वरग्रस्ता वयमित्यादयः। इयं सूची त्वनन्ता। यदा कदास्मान् काचन समस्या पीडयति पुरातनकाले जनानाञ्जीवनङ्कीदृशं बभूवेति चिन्तनीयम्। पुरातनकाले विद्युच्छक्तिर्न बभूवातो जनास्तमसि जिजीवुः। तयुष्णं निवारणाय व्यजनं न चालयाञ्चक्रिरे, शीतं निवारणायोष्णनिर्माणयन्त्रञ्चालयितुं न शेकुः। तेषां समस्यानामपेक्षयास्माकं समस्या त्वल्पा एव । यदि ज्वरपीडिता वयं, चिकित्सकेन दत्तमौषधं सेवित्वा पुनरारोग्यं प्राप्तुं शक्नुमः। प्राचीनकाले वैद्यशास्त्रमपि न बहूत्तमं। चिकित्सका औषधं ददुः परन्तु ते शस्त्रचिकित्सा न चक्रुः। धनिकराजानोऽपि रोगानधिकृत्य किमपि कर्तुं न शेकुः। यद्यप्याधुनिकजीवने समस्या वर्तन्ते तथाप्यास्माकञ्जीवनानि प्राचीनजीवनानामपेक्षया समीचीनतराणि। प्राचीनकाले सामान्यप्रजायाः कृते भोजनं सर्वदा विरलम्। अद्यत्वे भोजनस्योतिशयोऽस्ति। दरिद्रा अपि स्थूलगात्रेण पीडिताः। अतो यदा कदापि वयङ्कष्टैः पीड्यामहे तदा प्राचीनकालिकजीवनविषये चिन्तनीयम्। तदेवाधुनिककालिनः सुखसुविधायाः कृते धन्यो भवेम। अस्माकङ्कष्टानि न महन्तीति चिन्तयेम।
शुक्रवार, 15 दिसंबर 2017
उपायनानि
क्रिस्तमसपर्वमागमिष्यमानमस्ति। आपणा जनैः सम्मर्दाः। सामान्यदिनानामपेक्षयापणेष्वधिका जना दृश्यन्ते। सर्वे तेषां बन्धूनाङ्कृतयुपायनानि क्रीणितुमुद्युक्ताः। बन्धुभिः सह पर्वं समाचरन्त्येतत्तु हर्षजनकम्। परन्तु प्रतिवर्षं सहस्रा जना अनावश्यकान्युपायनानि लभन्ते। बहून्युपायनानि जनैर्ग्रहीत्वा कदापि नोपयोगः कुर्वते। तेषाङ्गृहे जीवने च तान्युपायनान्यवकाशः समयश्च समाविशन्ति। एतादृशानामुपायनानाङ्कृते जना व्यर्थतया महद्धनस्य व्ययः कुर्वते। येषाँव्वस्तूनाङ्ग्राहक उपयोगः कर्तुं शक्नोति तान्येव क्रेतव्यानि देयानि च। गृहँव्वस्तूभिर्न सम्मर्दङ्कर्तव्यम्। सम्मर्दगृहं मानसिकदुष्प्रभावञ्जनयति। अस्मिन् क्रिस्तमसपर्वे यानि वस्तून्यावश्यकानि तान्येव देयानि सङ्ग्रहतव्यानि च।
सदस्यता लें
संदेश (Atom)