प्रतिदिनं सन्दर्शनेभ्यः सन्नाहान्करोमि। बुद्धियुक्तः श्रमः सः। तस्माच्छ्रान्तिर्जायते। कदाचिच्छाश्रथ्येऽहम्। वेगः किञ्चिन्नयूनः करणीय इति चिन्तयामि।
शनिवार, 30 जनवरी 2021
शाश्रथ्ये
रविवार, 24 जनवरी 2021
जना विभक्तीर्नवगच्छन्ति
तृतीयस्तरीयछात्रान्पाठयामि। मम वर्गे ये छात्रा वर्तन्ते ते बहुभ्यो वर्षेभ्यः संस्कृतं पठन्ति। परन्त्वितोऽपि प्रायशः संस्कृतेन सम्भाषितुन्न शक्नुवन्ति। किञ्च सम्यग्विभक्तिप्रयोजनङ्कर्तुन्न शक्नुवन्ति। कारणङ्किम्? अभ्यासाभावः। वर्गाद्गत्वा ते कदापि संस्कृताय न प्रयतन्ते। तर्हि कौशलङ्कथं वर्धेत? सप्ताहे घण्टामात्रं वर्गमागत्य तु संस्कृतकौशलन्न लप्स्यते।
रात्रिभोजनम्
अद्य रात्रिभोजनाय भार्या मृगमासमपाक्षीत्। क्रिस्तमसपर्वणि तया मृगमासं पक्तमासीत्परन्तु तच्छुश्कमभवत्। अद्य शुश्कन्नाभूत्। मृगमासेन सह शाकानि मदिराञ्चासेविष्महि। उत्तमं भोजनमभूत्। तद्भोजनङ्कृत्वा समभाषिष्वहि। तत्परं दूरदर्शने पादकन्दुकक्रीडामद्राक्ष्म। उत्तमं रविवासरोऽभूत्।
कौशलं वर्धते
अद्यत्वे ये प्रश्नाः सन्दर्शनेषु पृच्छ्यन्ते तेषां सामान्यतन्त्रांशेन न कोऽपि सम्बन्धः। अतः सम्प्रति सन्दर्शनेभ्यो विशेषाभ्यासः करणीयः। तदर्थं प्रयते। इदानीं मासादधिको गतः। निश्चयेन प्रगतिर्दृश्यते। यान्प्रश्नान्दृष्ट्वा पूर्वं शिरस्भ्रमणं प्राप्नोमि स्म तान्दृष्ट्वा भयन्नानुभवामि। बहुवारं तेषां परिहारमपि दातुं शक्नोमि। इतोऽपि बहुकौशलमर्जनीयम्। तस्मै प्रायः पञ्चषणमासा आवश्यकाः।
शनिवार, 23 जनवरी 2021
पुत्रस्यासक्तिश्चतुरङ्गे
पुत्रः प्रतिदिनं सङ्गणके चतुरङ्गङ्क्रीडति। तस्य विद्यालयस्य जालपुटे चतुरङ्गपाठाः सन्ति। तान्स प्रतिदिनङ्करोति। तस्मात्तस्य ज्ञानमभिवर्धते। अधुना स मां चतुरङ्गे बहुशः पराजेतुं शक्नोति। मुदितोऽहम्।
त्रिंशद्दिनेष्वशीतिः प्रश्नाः
सन्दर्शनाय प्रतिदिनं तन्त्रांशाभ्यासङ्करोमि। त्रिंशद्दिनेष्वशीतिः प्रश्नाः कृता मया। एतद्दृष्ट्वा मोदेऽहम्। परन्त्वितोऽपि बहवः प्रश्नाः करणीयाः। न्यूनातिन्यूनं त्रिशतं प्रश्नाः करणीयाः। तस्मादात्मविश्वासो वर्धिष्यते। तावद्भ्यः प्रश्नेभ्यः षण्मासा आवश्यका इत्यूहेऽहम्।
रविवार, 17 जनवरी 2021
चतुर्णां दिनानामवकाशः
मम चतुर्दिवसीयावकाशो वर्तते। शुक्रवासरे कार्यलयादवकाशमगर्हे। सोमवासरेऽप्यवकाशोऽस्ति। परन्तु चतुर्णां दिनानामवकाशो भूत्वापि मयावकाशो न लभ्यते। सन्दर्शनाय सन्नाहान्करोमि। तदर्थं महच्छ्रम आवश्यकः। प्रतिदिनं तन्त्रांशं लिखामि। किञ्च स तन्त्रांशो न सरलः। कठिनसमास्यानां परिहारा लेखनीयाः। तस्मायत्यधिकचित्तैकाग्रतावश्यकी। समस्तावकाशस्तस्मिन्नेव गतः।