प्रातःकाले पित्रा सह समभाषिषि। सर्वमङ्गलं पृष्ट्वा स मम पदोन्नितिर्विषयेऽपृच्छत्। मम पदोन्नतिर्भवेद्येन सोऽन्यान्वक्तुं शक्नुयात्तस्य पुत्रस्य पदोन्नतिरभवदिति तस्येच्छा। आ षड्वर्षेभ्यस्त्वमस्यै संस्थायै कार्यङ्कृत्वापि पदोन्नितिः किमर्थन्नाभवदिति स वारं वारं पृच्छति। अहं पदोन्नतये प्रयते परन्तु सामाजिकापेक्षाया एव। मम कापि विशेषेच्छा नास्ति। उच्चतरपदं प्राप्याधिकानि सम्मेलनानि भवन्ति। तस्मात्समयशैथिल्यं व्यपयाति। तदहन्निच्छामि। सम्प्रति बहुवारं कार्यं न्यूनमस्ति चेन्मुक्तसमयं लभे। उच्चस्तरेषु मुक्तसमयः कदापि न लभ्यते।
रविवार, 27 फ़रवरी 2022
पदोन्नतिः
मंगलवार, 22 फ़रवरी 2022
वेतनवृद्धिः
ह्यः प्रबन्धकेन सह मेलनमभवत्। स मामसूचयद्यत्संस्थया वेतनवृद्धिः करिष्यते। केवलं मह्यन्न सर्वेभ्यः। विंशतिप्रतिशतं वेतनवृद्धिर्दास्यते। अन्यच्च मम पदोन्नतिविषये स विश्वासमदर्शयत्। यदि तस्य विश्वासः सम्यगस्ति तर्हि द्वयोर्मासयोः पदोन्नतिं लभेय। पदोन्नतिः प्राप्यते चेत्पुनर्वेतनवृद्धिर्भवेद्वा?
शनिवार, 19 फ़रवरी 2022
कर्मण्येवाधिकारो मम
आ वर्षं प्रयत्यापि सन्दर्शनुत्तमं भूत्वापीष्टोद्योगो न लब्धः। नूनं विप्रलब्धोऽस्मि। परन्तु जानामि कमपि लक्ष्यं साधने केचनांशाः स्वहस्तयोर्न वर्तन्ते। विधेर्विशेषमहत्वं सर्वदा वर्तते। एवं सति मम कार्यं तु श्रद्धया श्रमकरणमेव। तदतिरिच्य त्वहङ्किमपि कर्तुन्न शक्नुयाम्। एवञ्जानति मयि कापि विशेषनिराशा न तिष्ठति।
उद्योगो न दत्तः
समयक्सन्दर्शने सत्यपि संस्थयोद्योगो न दत्तः। न्यूनवेतनेऽपि। सा संस्था दर्पाविष्टा। सर्वे जनास्तत्रोद्योगप्राप्तये यतन्ते। अतः सा कमपि केनापि कारणेन निराकर्तुं शक्नोति। केन कारणेन निराकृतमिति तया नोच्यत।
शुक्रवार, 11 फ़रवरी 2022
पुत्रेणापि ज्ञायते
ह्या रात्रौ पुत्रो मया सहास्वपत्। तस्मै रात्रौ सम्भाषणं रोचते। स ममोद्योगविषयेऽपृच्छत्। अहं तमसूचयं यद्यद्यपि मम सन्दर्शनं सम्यक्तयाभवत्तथापि संस्थयाननुभवी कर्मकर इवोद्योगो दीयते। परन्तु पञ्चसु सन्दर्शनेषु ये द्वे सन्दर्शनेऽधारीकृत्य उच्चपदं दीयते ते सन्दर्शने तु तव बहूत्तमेऽभवतां तथाप्युच्चपदं न दीयते? इति विस्मयं सोऽदर्शयत्। सत्यं पुत्र! तस्मादेवाहङ्कुपितोऽस्मीत्यहं तमवदत्।
बुधवार, 9 फ़रवरी 2022
कोपान्निद्रा गता
सामान्यतः कोपप्रवृत्ति मयि न वर्तते परन्तु संस्थयाननुभवी कर्मकर इवोद्योगो दीयतयिति ज्ञात्वा कोपान्निद्रा गता रात्रौ।
मंगलवार, 8 फ़रवरी 2022
कुप्यामि
उद्योगसन्दर्शनं समपद्यतेति पूर्वं सूचितं मया। सन्दर्शनमुत्तममभवत्। ये प्रश्नाः पृष्टास्ते सर्वे सम्यक्तया परिहृता मया। संस्थयोद्योगो दीयतयिति मया चिन्तितमासीत्। अद्य संस्था मामसूचयन्ममसन्दर्शनं बहुश्लाघ्नीयन्नासीत्। तयुद्योगं दत्तुं शक्नुयुः परन्तु न्यूनवेतनेन पुरस्सरम्। कियद्वेतनं दास्यतयिति न सूचितम्। आगामिषु दिनेषु सूचयिष्यते। मम पञ्चदशवर्षाणामनुभवमपुेक्ष्य नूतनपदवीप्राप्तवाञ्छात्र इव मह्यमुद्योगो दीयतयिति दृष्ट्वा कुप्यामि।