शनिवार, 13 अक्टूबर 2018
अभिरक्षायोजनानां शुल्कमधिकायते
साम्प्रतिककाले नानाविधा अभिरक्षायोजना अनिवार्याः - यानाभिरक्षायोजना, जीवनाभिरक्षायोजना, गृहाभिरक्षायोजना - न्यूनातिन्यूनमेताः परिपालनीयाः। यदाकदापि एता नवीकरणाय शुल्कं देयं तच्छुल्कं सर्वथाधिकायते। प्रतिवारमुन्नमितस्य शुल्कस्य दानेन मम मनो दूयते।
पर्यवेक्षको गतः
अस्य सप्ताहस्य गुरुवासरादारभ्यागामिसप्ताहस्य शुक्रवासरं पर्यन्तं कार्यालये मम पर्यवेक्षकमाखेटाय गतः। व्याधः स मृगयिष्यमाणेऽहङ्किञ्चित्सौकर्येण कार्यङ्करिष्यामि। सौविध्येनागामिसप्ताहं गमिष्यतीति तर्कयामि।
पुत्राय जलं व्यस्मरम्
प्रतिशुक्रवासरं पुत्रस्तस्य विद्यालयस्य भोजनालये भोजनमत्ति। परन्तु जलकूपी तु तेन नेतव्या। ह्योऽहं ताञ्जलकूपीं तेन सह गमयितुं व्यस्मरम्। स तस्याध्यापिकां बोधितवान् परमतिरिक्ता जालकूपी कक्ष्यायां नास्ति तयोक्तम्। अतः पुत्र आदिनं पिपासितस्तस्थौ। प्रतिदिनं तस्य माता तमानेतुमपराह्णे विद्यालयङ्गच्छति। सा सर्वथा तस्मै जलं नयति। तां मिलित्वा पुत्रः सर्वं तज्जलं पपौ। प्रदोषङ्कार्यालयादागत्य मया ज्ञातङ्कीदृशः प्रमादो मया कृतः। अनुशयोऽन्वभवम्। भविष्यत्काले पुनः एतादृशः प्रमादो मया न क्रियेतेति जानाम्यहम्।
शनिवार, 6 अक्टूबर 2018
नूतनवर्गः - ६
श्वस्तने वर्गे पाठनीया अंशाः -
प्रथमतः परीक्षायोजनीया। तदनन्तरङ्क्रियापदानि पाठनीयानि।
क्रियापदानि (लट्, लोट्)
गच्छति, वदति, पचति, खादति, पिबति, चलति, धावति, प्रक्षालयति, हरति, वसति
करोमि, वदामि, पठामि, उपविशामि, उत्तिष्ठामि
उपविशतु, पठतु, गच्छतु, आगच्छतु, करोतु
कुर्वन्तु, पठन्तु, गच्छन्तु
यदि समयोऽवशिष्यते सर्वनामानां बहुवचनं पाठनीयम्-
एते, एताः, एतानि, ते, ताः तानि
प्रथमतः परीक्षायोजनीया। तदनन्तरङ्क्रियापदानि पाठनीयानि।
क्रियापदानि (लट्, लोट्)
गच्छति, वदति, पचति, खादति, पिबति, चलति, धावति, प्रक्षालयति, हरति, वसति
करोमि, वदामि, पठामि, उपविशामि, उत्तिष्ठामि
उपविशतु, पठतु, गच्छतु, आगच्छतु, करोतु
कुर्वन्तु, पठन्तु, गच्छन्तु
यदि समयोऽवशिष्यते सर्वनामानां बहुवचनं पाठनीयम्-
एते, एताः, एतानि, ते, ताः तानि
कूटसमस्या
गतसप्ताहे कार्यालये कयाचित्कूटसमस्यया सह युध्यमान आसमहम्। द्विसहस्रा नूतनाः क्रेतार आस्माकीनाज्जालपुटात्क्रेतुन्न शक्नुवन्तीति मामकेन परिवेक्षकेन मां सूचितम्। केनापि हेतुना क्रेतॄणाङ्क्रयणानुज्ञावधिः (‘बाइङ्ग्-सेशन्-टाइमौट्’) न्यूना जाता। केन कारणेन सोमवासरादारभ्य शुक्रवासरं पर्यन्तमहमन्विष्टवान्। अन्ततः शुक्रवासरे समस्यायाः समाधानं प्राप्तम्। मम परिवेक्षको मया प्रसन्नोऽभवत्। क्रेतारोऽपि प्रसन्ना अभवन्।
प्रतिवेशिनो जन्मदिवसोत्सवः
अद्य प्रतिवेशिनः पुत्रस्य जन्मदिवसोत्सवाय वयमगमाम। तयोः पुत्रस्त्रिवर्षीयोऽभूत्। उत्तम उत्सवः। प्रतिवेशिना नानापशव आहूताः। छागः, कुक्कुट्टाः, शशाः, कादम्बश्च विद्यमानाः। तान् स्पृशन्तो बालबालिका अमोदिषत। अतिथिभ्य उत्तमभोजनमपि परिवेषितम्।
तनयस्य संस्कृताध्ययनम्
गतेभ्यस्त्रिभ्यः सप्ताहेभ्यः पुत्रः संस्कृतवर्गाय गच्छन्नस्ति। वर्गाय गमनं पठनञ्च तस्मै रोचते। प्रतिरात्रावपि स संस्कृतं पठति। देवनागर्या लेखनाभ्यासङ्करोति। इदानीं पर्यन्तं सर्वे स्वराः केचन व्यञ्जनाश्च तेन पठिताः। अस्मान्मुदितोऽहम्। भाविनि काले तस्यासक्तिरनुवर्तिष्यतयित्याशासे।
सदस्यता लें
संदेश (Atom)