पुत्रः सङ्गणकेन पठति। केभ्यश्चित्सप्ताहेभ्यः पूर्वं तस्मै टङ्कनफलकं मूषकयन्त्रञ्च क्रापिते। अङ्कसङ्गणकस्य फलकं तु लघ्वस्ति। अतस्तस्मै बृहत्तरं फलकमक्रीणाम्। विद्यालयः सङ्गणकेन व्यायामपि कारयति। तस्मै तेनासन्दोऽपसारयितव्यः। परन्तु यस्मिन्नासन्दे स उपविशति स महद्भारयुक्तः। सचक्रासन्द आश्यको येन स तमनयासेनापसारयितुं शक्नुयादिति सोऽयाचत। स आसन्दोऽपि क्रीतः। एतावतोभे वस्तू नागते। सप्ताहान्तपर्यन्तमागच्छेताम्।
मंगलवार, 29 सितंबर 2020
आसन्दसङ्गणकफलके क्रीते
सन्धिवर्गः - ५
सन्धिः पाठ्यमानोऽस्ति मदीये वर्गे। जनाः पिपठिषन्ति परन्तु तस्मै यावत्प्रयत्नमावश्यकं तावन्न कुर्वते। गृहकार्ये दत्तेऽन्तिमदिनस्यान्तिमक्षणे कुर्वन्ति। तेन बहवो दोषा भवन्ति। सन्धिनियमा बहवः। तेषु को नियमो योजनीयस्तस्मायभ्यास आवश्यकः। तत्सप्ताहे दिनैकस्मै पठित्वा न साध्यते।
रविवार, 27 सितंबर 2020
पुत्रः सप्तवादेनऽजागरीत्
अद्य पुत्रः सप्तवादेनऽजागरीत्। सामान्यतः स उपाष्टवादने जागर्ति। तेनावां शान्त्या वार्ताः पश्यन्तौ चायं पातुं शक्नुवः। नाद्य।
अंसे वेदना
केभ्यश्चिद्दिनेभ्यो वामस्थांसे पृष्ठे च वेदनामनुभवामि। कस्माद्वेदना जाता न जाने। व्यायामाय भारं वहामि प्रायस्तस्मादभवत्। तन्निवारणाय ह्यः स्नानकुण्डे मेग्नीसियमलवणं निक्षिप्य विंशतिनिमेषान्यावदतिष्ठम्। तथापि वेदना पूर्वसदृशी। सामान्यतोऽहं स्नानकुण्डन्न प्रयुञ्जे यतस्तस्मै प्रभूतजलमाश्यकम्। अद्यत्वे सर्वत्र जलाभावो जलस्य शुल्कमधिकमस्ति च। अतो बहुभ्यो मासेभ्यः परस्तात्स्नानकुण्डेऽस्नाम्।
शनिवार, 26 सितंबर 2020
चित्रक्रीडायन्त्रम्
पुत्रञ्चित्रक्रीडायन्त्रमक्रापयाव। षण्णमासेभ्यः सोऽदो यन्त्रं याचमानोऽस्ति। परन्तु करोणाविषाणुवशात्तदयन्त्रस्याभावोऽस्ति। विक्रेतारो द्वित्रगुणशुल्कं याचन्ते। सामान्यशुल्कं त्रिंशद्रुप्यकाण्यस्ति। अन्तर्जाले न्यूनातिन्यूनं पञ्चशद्रुप्यकाणि याच्यन्ते। तस्मादेतावत्पर्यन्तं तस्मै यन्त्रन्न क्रीतमीसीत्। गतसप्ताहयेकस्मिन्नन्तर्जालापणे यन्त्रं सामान्यशुल्केन विक्रियतयति दृष्टमावाभ्याम्। तस्मिन्नेव समये क्रयणादेशमददाव। चित्रक्रीडायन्त्रक्रीडामुद्रिकाक्रयणकरेभ्य आहत्याष्टसप्तत्याधिकत्रिशद्रुप्यकाण्यददाव। चित्रक्रीडायन्त्रं लब्ध्वा पुत्रः सुहर्षितोऽस्ति।
भित्ती रजति
आ बहोः कालाद्भार्या पाकशालाया भित्ती रिरङ्क्षति। अद्य सा ते रजति। कषायवर्णं सा चिच्ये। तादृशो गहनवर्णो मह्यन्न रोचते परन्त्वहं विषयेऽस्मिंस्तटस्थोऽस्मि। अतोऽहमङ्गीकृतवान्। रञ्जनायाहं मम साहाय्यमहौषं परन्तु तया न स्वीकृतम्। नूतनतया रञ्जिते भित्ती कथं द्रक्ष्येतयति द्रष्टव्यम्।
मंगलवार, 22 सितंबर 2020
भाराः क्रीताः
करोणासमयात्पूर्वमपि मम कुटुम्बस्तु गृहयेव व्यायामङ्करोति स्म। व्यायामे कुर्वत्यहं भारान्वहामि। गच्छता कालेनामीषां भाराणाङ्गुरुत्वन्न्यूनायते यतो मम बलं वर्धते। अस्मान्नूतनभाराः क्रेतव्याः। परन्तु करोणाकाले बहवो जना गृहे व्यायामङ्कुर्वते। अतो भाराणां शुल्कं समधिकं भूतम्। गतसप्ताहान्ते केनचिदन्तर्जालेन तस्य भाराः क्रयणाय विज्ञप्ताः। मम भार्या तस्य गृहङ्गत्वा षड्भारांश्चिक्रिये। दशपौण्डमितस्य प्रत्येकभारस्य शुल्कङ्केवलं पञ्चरुप्यकाणि। सम्प्रति तादृशान्नूतनभारान्क्रयणाय चतुर्गुणं शुल्कं याच्यते विक्रेतृभिः। भार्यया सम्यक्कृतम्।