रविवार, 17 अप्रैल 2022

सोलरिस् (पुस्तकम्)

स्टेनिस्ला-लेम्महाशयः सोलरिसिति पुस्तकं १९६१ वर्षे लिलेख। पुस्तकमहं २०११ वर्षेऽक्रीणाम्। तस्मिन्वर्षेऽपठमपि। परन्तु दशवर्षेभ्यः परं पुस्तकात्किमपि न स्मृतम्। आकस्मिकतया पुनःपठनेच्छा जागरुका। गृहे प्रकोष्ठ एकः पुस्तकालयरुपेण वर्तते। पुस्तकालयेऽस्मिन्बृहदन्वेषणङ्कृतं मया। परन्तु पुस्तकं न लब्धम्। नितरां निराशामन्वभवम्। मया ज्ञातमासीदहं पुस्तकं निश्चयेन क्रीतवान्कस्मैचिन्न दत्तवानपि। तर्हि पुस्तकङ्कुत्रागच्छत्? निराशतया पुस्तकालययासन्दयुपविशन्नासम्। तदा मम दृष्टिर्दूरदर्शनस्योऽधः सान्द्रमुद्रिकाराशौ पतिता। तासु सान्द्रमुद्रिकासु सोलरिस्पुस्तकं स्थितमासीत्। पुस्तकं लब्ध्वा हर्षितोऽभवम्। गते सप्ताहे पुस्तकमपठम्। सामान्य विज्ञानकल्पना न वर्तते पुस्तके। अन्येनासमानजीवेन सह कथं सम्पर्कं स्थापयितुम् (वा न) शक्यतयिति पुस्तकस्य विषयः। पुस्तकं मह्यमरोचत।

शनिवार, 16 अप्रैल 2022

उद्योगः प्राप्तो गमितश्च

गते मासेऽहमस्मिञ्जालस्थाने लेखान्नालिखम्। तस्य कारणमुद्योगसन्दर्शनम्। त्रिवर्षेभ्यः पूर्वङ्काफ्यापणे कञ्चन सज्जनममिलम्। मासात्पूर्वं स सज्जनो मां तस्य संस्थायामुद्योगायाहूतवान्। सुवर्णावकाशो भासते स्म यतः कार्यमतिरुचिकरमासीत्। वेतनमपि सम्यग्भासते स्म। आ मासात्तस्याः संस्थायाः सन्दर्शनकार्यमकरवम्। संस्थयोद्योगो दत्तः। मया गृहीतश्च। यद्यपि कागदे वेतनं सम्यग्दृश्यते स्म वास्तविकतया वेतनमधिकन्नासीत्। वेतनस्य केवलं पञ्चाशत्प्रतिशतं भाग एव सुनिश्चित आसीत्। अन्यत्पञ्चाशद्भागं संस्था स्वच्छन्दतया दद्यात्। तन्मयि चिन्तामजनयत्। तथापि कार्यमुत्तममासीदित्यतो मयोद्योगः स्वीकृतः। गते सोमवासरे मदीयां साम्प्रतिकां संस्थां सूचनार्थमहं सज्जोऽभवम्। परन्तु तस्मिन्दिनयेव साम्प्रतिकसंस्थया वेतनवृद्धिः कृता। वेतनवृद्धेः पूर्वमपि नूतनोद्योगस्य वेतनं मय्युत्साहन्न जनयन्नासीत्। वेतनवृद्धिं लब्ध्वा तु नूतनोद्यगोस्य वेतनमन्यूनायत। अतो नूतनसंस्थामसूचयमहमुद्योगन्न स्वीकरिष्यामीति। मासं यावत्कृतङ्कार्यं व्यर्थञ्जातम्। अद्यत्वे स्थितिरीदृश्येव। यद्यपि बहव उद्योगावकाशा वर्तन्ते तथापि कञ्चनोद्योगं प्रापणाय महत्समयश्श्रमश्चावश्यकौ।

शुक्रवार, 15 अप्रैल 2022

जलोद्यानमगच्छाम

ह्यो निकटस्थञ्जलोद्यानमगच्छाम। रात्रौ तत्रैवावसाम। पुत्रः प्रहृष्टः। तेन बह्व्यो जलक्रीडाः कृताः। निकटवर्तिनं स्थानङ्गच्छेम चेद्गमनागमने समयो न व्यर्थीभवति। स्थलोऽयङ्केवलं दशमैलदूरयासीत्। अतोऽर्धघण्टायामेव तत्स्थलं प्राप्तवन्तो वयम्। प्रायस्तत्र रात्रिवासो नावश्यक आसीत्परन्तु रात्रिवास भार्यापुत्राभ्यामरोचतेत्यतः कृतः।

सोमवार, 21 मार्च 2022

सङ्ग्रहालयः

ह्यो निकटनगरस्थं सङ्ग्रहालयमगच्छन्। तत्र बहूनि प्राचानवस्तूनि प्रदर्शितान्यासन्। पुत्रस्तानि दृष्ट्वा मुदितः। प्रत्यागमनकाले वीथ्यां वाहनसम्मर्द आसीत्। तस्माद्यस्यै यात्रायै सार्धैकघण्टा सामान्यतोऽपेक्ष्यते तस्यै सपादद्विघण्टा यापिताः। तथापि सार्धपञ्चवादने गृहमागच्छाम। उचितकालयागच्छामित्यतः साँयकाले विश्रामङ्कर्तुमशक्नुम।

शनिवार, 19 मार्च 2022

वसन्तविरामः

वसन्तविरामः। पुत्रस्तस्य मातामह्या गृहङ्गतः। श्व आवां तमानेष्यावः। प्रातःकाले  पुत्रं लब्ध्वा सङ्ग्राहलयङ्गमिष्यामः। तदनन्तरं प्रत्यागमिष्यामः।

सन्दर्शनोऽभवत्

ह्य एकः सन्दर्शनोऽभवत्। सन्दर्शनिऽयं भिन्नरीत्या प्राचलत्। सामान्यत एक्समायुद्योगाय प्रायः पञ्चषट्सन्दर्शनानि कर्तव्यानि। परन्त्वेतया संस्थया गृहकार्यं दत्तम्। एकस्मिन् सप्ताहे कार्यङ्कृत्वा तदाधारीकृत्य घण्टात्मकं प्रदर्शनं विवेचनञ्च करणीयमासीत्। एतस्यै रीत्यै मय्यादरो वर्तते। करणीयङ्कार्यमपि सार्थकमासीत्। परन्त्वपरिचितकार्यङ्करणाय बृहत्समय आवश्यकः। आहत्याहं प्रायस्त्रिंशद्घण्टा अयापयम्। आगामिनि सप्ताहे ज्ञास्यते यद्युद्योगो दीयते वा न।

रविवार, 6 मार्च 2022

भिन्नरीत्योद्योगसन्दर्शनम्

गते सप्ताहेऽमुकेन महाशयेन सह समभाषे। स तस्य संस्थायै मम सन्दर्शनङ्कारयितुमिच्छति। स सन्दर्शनं भिन्नरीत्या करोति। गृहकार्यं ददाति। एकस्मिन्सप्ताहे यावच्छक्यङ्कार्यङ्कर्तव्यम्। प्रश्नं दृष्ट्वा मया ज्ञातं यन्मया प्रश्वनविषये किमपि न ज्ञायते। तस्मात्प्रश्नस्य परिहारकरणाय बृहच्छ्रमो कर्तव्यः। सर्वप्रथमं तु प्रश्वनविषये पठितव्यं यस्मादहं प्रश्नमवगन्तुं शक्नुयाम्। तदनन्तरं तस्य परिहारश्चिन्तनीयः। तदनन्तरमेका परिहारसञ्चिका रचनीया यस्यां परिहारो विस्तरेण प्रतिपादनीयम्। एतत्सर्वङ्कृत्वाप्योद्योगो लभ्यतयित्यस्य निश्चितता तु नास्त्येव। उद्योगो दीयेत चेत्कियति वेतने दीयेतेत्यपि प्रश्नः। तर्हि सन्दर्शनङ्कुर्यां वा नेति चिन्तयामि।