गुरुवार, 2 जून 2022

'जन्गल्'

ह्य 'जन्गल्' इति नाम्ना चलच्चित्रमपश्यम्। सत्यकथामाधारीकृत्य चलच्चित्रमिदं रचितम्। बोलिव्यादेशस्थे निबिडवने त्रीणि मित्राणि मार्गभ्रष्टा बभूवुः। ते केनचिदपरिचितेन सह जग्मुः। ते कथं निबिडवने जिजीवुरिति दर्शितम्। तैरमूर्खत्वं दर्शितमिति मन्ये। विदेशेऽज्ञातनिबिडवने परजनेन सह गमनमपायजनकम्। चतुर्षु जनेषु द्वौ जनौ पुनर्नगरं लेभाते। अन्याभ्यां द्वाभ्याङ्कापि वार्ता न श्रुता। कदाप्यपरिचितेन सह निर्जनस्थानन्न गन्तव्यम्।

भार्याया उद्योगसन्दर्शनम्

इदानीं भार्याया उद्योगसन्दर्शनं प्रचलति। एतस्मायुद्योगाय सोत्साहिता। साम्प्रतिकोद्योगस्यापेक्षयानेनोद्योगेन द्विगुणितं वेतनं दास्यते। सोद्योगं लप्सीष्ट!

सोमवार, 30 मई 2022

कार्यङ्कर्तव्यम्

त्रयाणां दिनानामनन्तरं श्वः कार्यालयस्य कार्यङ्कर्तव्यम्।

ग्रीष्मकालीनवर्गः

छात्रा अयाचन्त ग्रीष्मकाले वर्गो भवेदिति। गतेषु षञ्चमासेषु संस्कृतवर्गन्नापाठयम्। तस्मात्संस्कृतश्रवणभाषणावसरो नालभ्यत। तस्माद्दुखमनुभवामि। अतो ग्रीष्मवर्गः कर्तव्य इति चिन्तयामि। ममेच्छास्ति छात्रा सम्भाषणाभ्यासङ्कुर्युरिति। परन्तु न्यूनातिन्यूनं द्वौ छात्रौ व्याकरणं पिपठिषतः। व्याकरणं तु मह्यमपि रोचते। अतः पाठने न कोऽपि क्लेशः।

पुत्राय तन्त्रांशः

अद्य पुत्रं तन्त्रांशमपाठिषम्। पैथनिति भाषां तं पाठयामि। अद्यत्वे तन्त्रांशलेखनमत्युपयोगि कौशलमस्ति। ये तन्त्रांशं लेखितुं शक्नुवन्ति ते बहून्नुद्योगान्लब्धुं शक्नुयुः। अपि च तन्त्रांशलेखने मस्तिष्कस्य व्यायामं भवति। पुत्रस्य तन्त्रांशे रुचिर्वर्धेतेतीच्छामि। परन्तु कस्मिंश्चिदपि कार्ये यदि श्रम आवश्यकस्तर्हि तत्कार्यं तस्मै न रोचते। स प्यानोवादनमत्यजत्। तरणाभ्यासायापि स कठिनतयैव गम्येत। यावद्यावत्स वर्धते तस्यैतादृशो व्यवहार गच्छेदितीच्छामि।

नूतनसङ्गणकम्

कारयानस्य तैलपरिवर्तनङ्कारयन्नस्मि। नूतनसङ्गणके लेखमेतं लिखामि। पूर्वतनसङ्गणकस्य भार एतस्यापेक्षया द्विगुणादप्यधिकोऽस्ति। अपि च तस्य विद्युतकोशः केवलं पञ्चचत्वारिंशन्निमेषान्यावदेव कार्यङ्करोति। अतः पूर्वङ्कदापि तत्सङ्गणकन्नानयामि स्म। एतस्य सङ्गणकस्य विद्युतकोशः पञ्चघण्टाभ्योऽप्यधिकङ्कार्यङ्करोति। नूतनसङ्गणकं मह्यं रोचते। सामान्यतस्तस्य मूल्यं सहस्ररुप्यकाण्यस्ति। परन्तु कोस्ट्कोतः केवलं पञ्चाशदधिकसप्तशतरुप्यकाणि दत्त्वा लब्धम्। उत्तमं मूल्यं प्राप्याचिन्तयं सदृशमन्यत्सङ्गणकङ्क्रेतव्यमिति। परन्तु पुरातनसङ्गणकमिदानीमपि सम्यक्कार्यङ्करोति। यति सङ्गणकानि सन्ति तावति मात्रायां तेषां संरक्षणाय समयो दातव्यः। अतो न क्रीतम्।

पुत्रस्य ग्रीष्मविरामः

पुत्रस्य सार्धद्विमासात्मको ग्रीष्मविराम आरभत। गतेषु विरामेषु स किञ्चिदध्ययनङ्करोति स्म। सम्प्रति स केवलं तस्य मित्रैः सह क्रीडनमथवा चलच्चित्रक्रीडाः चिक्रीडिषति। तं सङ्गणकतन्त्रांशं पाठयितुं प्रयतिष्ये।