सोमवार, 27 अगस्त 2018

ममावकरः कस्यचिद्धनम्

अस्मिन् सप्ताहे नगरपालिका निष्प्रयोजकानि वस्तूनि सङ्गृह्णाति। यानि यानि वस्तूनि नावश्यकानि तानि गृहाद्बहिः स्थापनीयानि। नगरपालिकाया अवकरयानं तानि नेष्यति। कल्यमहमेकं दूरदर्शनं, एकं सङ्गणकं, एकञ्चलच्चित्रवृत्तकचालनयन्त्रञ्च (‘डी-वी-डी-प्लैयर्’) गृहाद्बहिरतिष्ठिपम्। तनयं विद्यालयं प्रापय्य कानिचन कार्याणि संसाध्य प्रत्यागत्याद्राक्षं तानि सर्वाणि वस्तूनि गतानि। कश्चन जनः स्वस्मै तान्यनैषीत्। मदीयोऽवकरः कस्मैचिदुपयोगी सिध्येदेतन्न क्लेशाय। प्रायशः स तानि परिष्कृत्य विक्रीणीयाद्धनञ्चार्जयेत्। अस्मिन्नपि कोऽपि क्लेशो नास्ति।

रविवार, 26 अगस्त 2018

नूतनवर्गः-२

नूतनवर्गः प्रवृत्तः। पूर्ववत्प्रथमदिने बहवो जना आगमन्। प्रायः षोडष प्रौढास्तत्येवापत्यानि चावर्तिषत। वर्गस्थलैकः प्रकोष्ठः विशालऽपरस्तदपेक्षया लघीयान् - अतिलघीयान्। वस्तुतो द्वितीयप्रकोष्ठो सम्भारप्रकोष्ठऽस्ति। षोडषजनास्तस्मिन् प्रकोष्ठे कृच्छ्रेणैव सुस्था जाताः। प्रथमदिने तु सर्वदा बहृदोत्साहः दृश्यतेऽधिकतमा जनाश्चागच्छन्ति। आगामिषु वर्गेषु कति जना वर्गे तिष्ठेयुरिति द्रष्टव्यम्। अद्याहमेतान् विषयानपाठिषम् -

भवान्, भवती, भवतः, भवत्याः, करोमि, करोति, कुत्र, मम नाम, संस्थायाम्, कार्यालये, कः, का, किम्।

आगामिनि वर्गैतान् विषयान् पाठयितास्मि -
प्रथमतः पुनस्स्मरणङ्कर्तास्मः। ततः -
सः, सा, तत्, एषः, एषा, एतत्, एतस्य, एतस्याः, तस्य, तस्याः, कस्य, कस्याः, बालकस्य, बालिकायाः
पुत्रः, पुत्री, पुस्तकम्, लेखनी, घटी, अस्ति, नास्ति, रमा, राधिका।

शनिवार, 25 अगस्त 2018

वात्यासारः

चतुर्दशाधिकसहस्रतमे वर्षे साहित्याकादेम्या पुरस्कृतं ‘वात्यासारः’ इत्याख्यं पुस्तकमपठिषम्। ओडियाभाषालेखकेन चन्द्रशेखरदासशर्मावर्येण लिखितं नारायणदाशवर्येण संस्कृतानुवादितं पुस्तकमिदं मम नेत्रे लोतकपूर्णेऽचीकरत्। सामान्यतो लोकप्रियकथानामवसानं सर्वदा हर्षोपेतम्। क्षुल्लका धनं प्राप्नुवन्ति, रोगिण आरोग्यं, परस्परवियुक्तयोः प्रणयिनोरयुक्तिः, परिग्रहात्परं सुखीजीवनम् - नैवास्मिन् ग्रन्थे। बहवः कथा दुःखान्तिकाः। एतद्विरलम्। कथाः सात्त्विका नादर्शिकाः। पाषाणहृदयानपि विद्रावयेयुरिमाः कथाः। पुस्तकं निश्चयेन प्रशस्त्यार्हम्।

नूतनवर्गः-१

श्वो नूतनसंस्कृताभिमुखवर्ग आरब्धा। ऐदम्प्राथम्येन वर्गेऽहमेवाध्यापको भवितास्मि। लेशमात्रमुद्विग्नता नानुभवामि प्रत्युत हर्षमनुभवामि। जना आगम्यासुः संस्कृतं पठ्यासुरिति ममाशा।

गुरुवार, 23 अगस्त 2018

पौर्वाह्णिकी चर्या

दारकस्य विद्यालयङ्गमने सति मामकीनायां पौर्वाह्णिक्याञ्चर्यायां परिवर्तनञ्जातम्। पूर्वतनं विद्यालयङ्गमनार्थमन्तरालं दीर्घमासीत्। सार्धषड्वादनादारभ्य नववादनं पर्यन्तङ्कदाचिदपि गन्तुमशक्नुवावाम्। नूतने विद्यालये तदन्तरालं तदपेक्षया लघुतरम्। सपादसप्तवादनादारभ्य चत्वारिंषदधिकसप्तवादनं पर्यन्तमेव। अहं दारकं सपादसप्तवादने विद्यालयं प्रापयामि यतोऽन्तरालस्यादौ वाहनसञ्चारो न्यूनः। तं विद्यालयं प्रापय्य बहुसमयो वर्तते मत्सकाशे। सार्धसप्तवादने कार्यालयङ्गमनं मह्यन्न रोचते। तत्काले कार्यालयो निर्जनः। अहमेतावच्छीघ्रमागतवानेतदुपलक्षणार्थं तत्र कोऽपि न विद्यमानः। अतः प्रतिदिनमहं दारकं विद्यालयं प्रापय्य काफ्यापणङ्गच्छामि। सार्धसप्तवादनादरभ्य सार्धाष्टवादनं पर्यन्तं तत्रैव स्थिरीभूय काफीपेयं पिबति कश्चन ग्रन्थः पठामि। समयस्य सदुपयोगः कुर्वति मम सन्तोषाय। काफ्यापणः कार्यालयन्निकषा। अतस्तत्तः कार्यालयङ्गमने वाहनसम्मर्दोऽपि न क्लेषाय। पूर्वमहमेव दारकं विद्यालयादानयामि स्म। परमयं विद्यालयस्त्वपराह्णे त्रिवादने छात्राँश्च्यावयति। तस्मिन् काले त्वहङ्कार्यालये स्थातव्यः। अतस्तस्य माता तमानयति। इदानीं यावदेषा दिनचर्या मम सन्तोषाय।

मंगलवार, 21 अगस्त 2018

अध्यापिकानामल्पभृतिः

तनयस्य विद्यालये प्रथमसप्ताहं समाप्तप्रायम्। स तु सोत्साहं विद्यालयङ्गच्छति। तन्महते सन्तोषाय। तस्याध्यापिका कियत्कार्यङ्करोत्येद्वीक्ष्य चकितोऽस्मि। सप्ताहान्तेऽपि सा वैद्युतकपत्रं प्रेषयति। अद्य सांयकाले विद्यालये मातापितॄणाङ्कृते समागमोऽभूत्। तत्रापि सावर्तिष्ट। न केवलमवर्तिष्ट, सर्वान्मातापितॄनपि कक्षामनैषीत्सा। दिनेऽपत्यानि के के पाठाः पाठयतीत्यप्यवादीत्सा। दूरदर्शने ह्यस्तनासु वार्तासु दृष्टवान् यदध्यापिकानां भृतिर्न्यूना। प्रायेण नूतनाध्यापिकाष्टविंशतिसहस्ररूप्यकमात्रं वेतनं प्राप्नोति। एतच्छ्रुत्वा विस्मित आसमहम्। अनुभविन्याध्यापिका अपि केवलं चत्वारिंशत्सहस्ररुप्यकमात्रं वेतनं प्राप्नुवन्ति। मम मनश्चेखिद्यते। अध्यापिका अतिमहत्वपूर्णकार्यङ्कुर्वन्ति। तासां दायित्वं सुमहत्। ताः प्रभूतकार्यङ्कुर्वन्ति। ताभ्योऽधिकं वेतनं देयम्।

सोमवार, 20 अगस्त 2018

जले कामपि मा प्रणौत्सीः

दूरदर्शने दृष्टवान् केचित्सख्यौ युवती कस्मिँश्चित्सेतौ तिष्ठतः। षष्टिपादास्तयोरधः कूलङ्कषा वहति। व्यक्तं रमणाय तस्मात्सेतोर्जनास्तस्यां सरिति कूर्दन्ति। अन्यतरा कूर्दनभयान्ननुचङ्करोति। अपरा तां प्रेरयति। तथापि सा न कूर्दति। आकस्मिकतयापरा तां प्रणुद्य पातयामास। सा मूढा व्यस्मरद्यज्जलेऽकामतः पतनङ्कुट्टिमे पतनमिव। सा वराकी बहून्यस्थीनि भग्नवती। प्रणोदिकारक्षकैर्निगडिता।