शनिवार, 30 नवंबर 2019

क्रिस्तमसग्रामं सज्जीकृतम्

क्रिस्तमसपर्व आगमिष्यन्नस्ति। प्रतिवर्षङ्गृहे क्रिस्तमसवृक्षङ्ग्रामञ्च सज्जीकुर्मः। अद्य प्रातःकाले पुत्रस्तस्य माता च गृहे क्रिस्तमसवृक्षमस्थाताम्। लघुक्रीडनकानि पाञ्चालिकाः कार्पासञ्चोपयुज्य लघुक्रिस्तमसग्राममपि सज्ज्यकृषाताम्। ग्रामो भोजनप्रकोष्ठे सज्जीकृतः। ग्रामे बहवो विद्युद्दीपा अपि प्रज्वलन्ति। सुन्दरं दृश्यम्।

'टर्मिनेटर्-डार्क्-फ़ेट्'

आजीवनं ‘टर्मिनेटर्-२’ मम प्रियतमञ्चलचित्रमतिष्ठत्। इदानीमपि तिष्ठति। तस्मिन् न किमपि परिवर्तनम्। सामान्यतश्चलचित्रेषु मम विशेषरुचिर्नास्ति। चलचित्रमन्दिरङ्गत्वामुकचलचित्रं द्रष्टव्यमिति विरलतया चिन्तयामि। परन्तु ‘टर्मिनेटर्’ तादृशानि चलचित्राणि यानि मया द्रष्टव्यान्येव। अतो यदा ‘टर्मिनेटर्’ आवल्यां नूतनशृङ्खलागता तदा मया द्रष्टव्येत्यचिन्तयम्। गतसप्ताहान्ते ‘टर्मिनेटर्-डार्क्-फ़ेट्’ चलचित्रमपश्यम्। चलचित्रं समीचीनमासीत्। कदापि नैरस्यन्नान्वभवम्। चलचित्रस्य कथायाङ्किमपि नूतन्नासीदित्याशाभङ्गो जातः। पुरातनानि कथा एव पुनर्दर्शिता। ‘टर्मिनेटर्-साल्वेशन्’ चलचित्रं मह्यं रोचते यतस्तस्य कथान्येषां ‘टर्मिनेटर्’ चलचित्राणामपेक्षया भिन्ना। अपि च ‘डार्क्-फ़ेट्’ चलचित्रे, द्वासप्ततिवर्षीय आर्नोलड्महाशयः, द्वाषष्टिवर्षीया लिन्डाहैमिल्टन्महोदयाभिनयतः। तौ दृष्ट्वा मोदे परन्तु तौ वृद्धौ। यतस्तौ मह्यं रोचेतेतमां तथापि तयोः समयो गत इति मम मतिः। भुषुण्डीवहन्तौ वृद्धौ युयुत्सू मह्यं मनोरञ्जनन्न दद्याताम्। ‘टर्मिनेटर्’ आवल्या एतदन्तिमचलचित्रमिति मन्ये। आर्थिकदृष्ट्या चलचित्रमेतल्लाभो न लभ्येतेति भाति। गतसप्ताहे ‘डार्क्-फ़ेट्’ दृष्ट्वा मम मनसि प्रथमद्वितीयाभ्याम् ‘टर्मिनेटर्’ चलचित्राभ्यां प्रीतिः पुनर्जागृता। अत उभे चलचित्रे पुनर्दूरदर्शनेऽपश्यम्। अत्युत्तमे चलचित्रे ते। सम्प्रति प्रथमं ‘टर्मिनेटर्’ चलचित्रं मया रोरुच्यते।

शुक्रवार, 29 नवंबर 2019

प्रातराशायागमाव

प्रातःकालेऽहं पुत्रश्च प्रातराशाय बहिरगमाव। स सर्वदैकस्मिन् स्थाने चिखादिषति। अन्यत्र गन्तव्यमिति मयोक्तम्। स निर्मनस्क्तयाङ्ग्यकृत। यत्राहं तमनैषं तत्र सः बहुभ्यो वर्षेभ्यो न गतः। प्रायः पूर्वतनगृहात्तत्र गच्छावः स्म। अतः स तत्सथानं व्यस्मरत्। गत्वा तस्य स्मृतिः पुनरागता। सोऽमोदिष्ट।

गुरुवार, 28 नवंबर 2019

वाद्ययन्त्रशिक्षणमनुवर्तिष्ये

आगामिसप्ताहे वाद्ययन्त्रशिक्षणस्यान्तिमदिनमस्ति। गुरुणोक्तं शिक्षणमनुर्वतनीयं परन्त्वधिकधनं देयम्। वाद्ययन्त्रशिक्षाधिकधनमपेक्षते। अतोऽहमवदमहमिदानीं नानुर्वते। प्रायोऽग्रिमे वर्षेऽनुवर्ते। गुरुरवददधिकधनं नावश्यकम्। यत्पूर्वं दत्तं तदेव देहि। एतत्छ्रुत्वाहं मुदितः। शिक्षणमनुवर्तिष्ययिति मया निर्णीतम्। अतो द्वादशदिसम्बरदिनाङ्कादारभ्य पुनर्द्वादशवर्गा भवितारः। तदर्थं सप्तत्यधिकद्विशतं रुप्यकाणि दातास्मि गुरवे।

गृहे स्थातास्वः

श्वः पुत्रस्य विद्यालयस्यावकाशः। आवयोरवकाशस्तु नास्ति। भार्यया तु कार्यालयङ्गन्तवयमेव यतः सा गृहात्कार्यङ्कर्तुन्न शक्नोति। तस्याः कार्यमेतादृशं यत्करणाय कार्यालयङ्गन्तव्यम्। अहं भाग्यशाली। गृहात्कार्यङ्कर्तुं शक्नोमि। अतः श्वो गृहात्कार्यङ्कर्तास्मि। आवाङ्गृहे स्थातास्वः। प्रातःकाले पुत्रं प्रातराशाय बहिर्गमयिष्यामि। तदनन्तरङ्कार्यङ्कर्तास्मि। स्वल्पकार्यमेव वर्तते। आदिनङ्कार्यकरणस्यावश्यकता नास्ति। अतः श्वस्तनं दिनं सम्यग्भवितेति मन्ये।

श्वशुरावगमताम्

अद्य श्वशुरौ पुत्रेण सहागमताम्। मध्याह्नभोजनङ्कृत्वा प्रत्यगमताम्। सर्वे सम्भाषणमकार्षुः। पुत्रो गृहमागम्य हर्षितः। आवामपि। गतचतुर्भ्यो दिनेभ्यो गृहे शान्तिरासीत्। इदानीं पुनः रवः श्रोतुं शक्यते।

बुधवार, 27 नवंबर 2019

पञ्चतन्त्रम् (अध्यायः ९)

दमनकः पिङ्गलकं कथितवान्…

एकदा मन्दविसर्पिणी नाम्ना काचित् यूका आसीत्। सा राज्ञः शय्यायां निवसति स्म। यदा राजा शयनं करोति स्म सा तस्य रक्तं पिबति स्म। सा यूका अवधानयुक्ता आसीत्। यदा राजा घोरनिद्राधीनः जातः तदा एव सा बहिः आगच्छति स्म। सा अधिकलोभं न करोति स्म। एवं राजशय्यायां सा तस्याः गृहं रचितवती। भोजनाय राजरक्तं पिबति स्म। जीवनं उत्तमम् आसीत्।

एकदा वायुवेगेन काचित् मक्षिका शय्यायाम् आपतिता। एतत् यूकायै न अरोचत। "इतः गच्छतु।" इति यूका आदेशं दत्तवती। मक्षिका उक्तवती - “अहम् अतिथिनी। भवत्या मम आदरः कर्तव्यः। बहूनां जनानां पशूनां च रक्तं अहं पीतवती परन्तु कदापि राजरक्तं न आस्वादितम्। अहं राजरक्तं पातुम् इच्छामि। कृपया माम् अद्य रात्रौ राजरक्तं पातुम् आज्ञां ददातु।"

मन्दविसर्पिणी निर्मनस्कतया अङ्गीकृतवती उक्तवती च - “अस्तु। परन्तु राज्ञः शयनस्य प्रतीक्षां करोतु। यदा सः घोरनिद्राधीनः भविष्यति तर्हि तस्य रक्तं पास्यावः अन्यथा सः जागरणं प्राप्स्यति।” मक्षिका सहर्षम् अङ्गीकारं दर्शितवती। अनन्तरं यदा राजा सुप्तः अभवत् मक्षिकायाः धैर्यं गतम्। पूर्वकृतं निर्णयम् उपेक्ष्य सा उत्साहेन राजानं दंशितवती। राज्ञः निद्रा भग्ना जाता। सः झटिति शय्यातः उत्थाय तस्य सेवकान् आहूतवान् - “झटिति अत्र आगच्छन्तु। मम शय्यायां कश्चन कीटः मां दशति। तम् अपसारयन्तु।” राजसेवकाः कीटस्य अन्वेषणं कृतवन्तः। मन्दविसर्पिणी जीवनरक्षणाय धावितवती परन्तु क्षणाभ्यान्तरे सा दृष्टा मारिता च।

दमनकः कथां समाप्तवान् - “यूका मन्दविसर्पिणी स्वयमेव स्वस्याः मृत्योः कारणभूता। तादृशी दशा भवतः न भवतु। सञ्जीवकः भवन्तं मारयिष्यति, तस्मात् पूर्वमेव भवान् तं मारयतु। यः स्वजनानाम् अपेक्षया परजनेषु विश्वासं करोति सः विनाशं प्राप्नोति - यथा शृगालः नीलः अभवत्।”

"सा का कथा?” पिङ्गलकः पृष्टवान्।

तदानीं दमनकः पिङ्गलकं नीलशृगालस्य कथां श्रावितवान्।