सोमवार, 3 सितंबर 2018

चतुरङ्गेन पीड्यते

गतकतिपयदिनेभ्यो मम पुत्रश्चतुरङ्गन्न क्रीडति। चतुरङ्गक्रीडायां प्रवर्तमानं बृहच्चिन्तनं तं विरक्तोऽकारयत्। ह्यः कथञ्चित्स क्रीडितुं सन्नद्धः। ह्योऽहं तमजापयम्। यतः स ह्यो विजितवानतोऽद्य स पुनः क्रीडनार्थमन्वरुधत्। अहन्तु सहर्षमङ्ग्यकार्षम्। प्रथमक्रीडायामहमजैषम्। यदाकदाचिदपि स क्रीडायां पराभूतः स सर्वदा पुनः क्रीडितुमनुरुणद्धि। अद्यापि तेनैवमकृतम्। द्वितीयक्रीडा प्रवर्तमानासीत्। एतावत्पर्यन्तङ्कोऽपि न विजितप्राय आसीत्। सहसा स आसन्दं प्रक्षिप्योच्चैस्तराङ्क्रन्दनमारब्ध। चतुरङ्गस्य मूर्धन्यचिन्तनं तं पीडयति तस्मिञ्छिरोभ्रमणञ्जनयति चेति तेन हेतुर्दत्तः। अहन्तु विस्मितोऽभूवम्। सामान्यतः शिष्टबालकः स एवन्न व्यवहरति। विद्यालयस्य चतुरङ्गसमूहे तेन भागं वाहयामीति चिन्तयन्नासं परमिदानीन्तु तस्मिन् विचारे संशयमेघा डयमानाः परिलक्ष्यन्ते।

रविवार, 2 सितंबर 2018

अष्टाध्यायी सहजबोध

अद्य ‘अष्टाध्यायी सहजबोध’ इत्याख्यस्य ग्रन्थस्य क्रयणादेशमदाम्। इमङ्ग्रन्थङ्क्रेतुं दीर्घकालादहञ्चिन्तयन्नस्मि। अस्मिन्देशेऽयङ्ग्रन्थः कृछ्रलब्धः। अन्तर्जालेन क्रयणादेशमदाम्। केषुचिद्दिनेषु ग्रन्थ आगच्छेत्। चतुर्षु भागेषु विभक्तो महार्घो सुमहद्ग्रन्थोऽयम्। नवत्यधिकचतुश्शताधिकद्विसहस्र पृष्ठैर्गुम्फितोऽयङ्ग्रन्थो मत्पञ्चाशीती रुप्यकाण्यचिच्यवत्। आदावेतावन्ति रुप्यकाणि चिक्रीषा नासीन्मम परमयङ्ग्रन्थो मयि कौतुकञ्जनयति। प्रवरया वैयाकरण्या श्रीमत्या दीक्षितपुष्पया नूतनविध्या व्याकरणः प्रतिपादितो ग्रन्थेऽस्मिन्। अनेन ग्रन्थेन षण्मासाभ्यन्तरेऽष्टाध्याय्यां दत्ता धातुप्रक्रियावगन्तुं शक्यते तया लेखिकया प्रख्यापितम्। यद्येतत्सत्यं तर्हि पञ्चाशीती रुप्यकाणि त्वल्पमूल्यमेव। किञ्च संस्कृतव्याकरणे नूतनग्रन्थरचनायै प्रोत्साहनार्थमेतस्य धनस्य व्ययेन ममासक्तिर्लघुयोगदानञ्च मया दर्शितम्।

मत्स्यागारः

अहं तनयश्च मत्स्यागारमगमाव। स मत्स्यागारोऽन्तिक एव। पूर्वन्नगच्छावेति विषादोऽनुभूयते। प्रायो वर्षपूर्वं तस्य मत्स्यागारस्य विषयेऽप्रशस्ता वार्ताः पठिता मया। परन्तु तथा किमपि न परिलक्षितम्। अन्येषु महानगरेषु स्थिता मत्स्यागारा इवायं मत्स्यागारो बृहन्नास्ति परन्तु तथापि स्तवनीयं स्थलमदः। नाम्ना तु मत्स्यगारोऽस्ति परन्तु तत्र न केवलं बहुविधा मीना वर्तन्तेऽपरञ्च नानाप्रकारा गोधाः, मकराः, अजगराः, पन्नगाः, बृहत्कच्छपाः, लघुकूर्माः, शुकाः, अन्यपक्षिणश्चापि विद्यमानाः। काँश्चित् पशूनप्यस्पृक्षावावाम्। घण्टाद्वयमव्ययाव काँश्चित्पारदेशिकान् पशूँश्चाद्राक्ष्वेति सन्तोषाय। आवयोः प्रवेशशुल्केनामीषां पशूनाङ्कल्याणं भवेदित्यपि हर्षजनकम्।

जिगमिषा नास्ति

सामान्यतो जनाः सप्ताहान्ते कुत्रचिद्गच्छन्ति। मयि तु कदापि कुत्रापि गमनाय जिगमिषा नास्ति। ह्यस्तु देवालये जन्माष्टमीपर्व आयोजितः। तत्रापि नाजिगमिषम्। गेहे स्थिरीभूय पुस्तककीट इवादिनंं पुस्तकानि पिपठिषामि। यदि बहिर्गमनाय जिगमिषा जायते तर्हि काफ्यापणङ्गत्वा पुस्तकं पठामि। तावदेव मम बहिर्गमनस्य जिगमिषा। प्रायेण गमनाय विरक्तोऽहम्। घोरनिदाघः प्रवर्तते। सर्वत्र जनसम्मर्दो दरीदृश्यते। वाहनस्थापनस्थलन्न लभ्यते। अतो विरक्तो भवाम्यहम्। परन्तु सुतः क्वचिन्नेतव्य इति चिन्तयामि। सर्वदा गृहे स्थानं तस्य क्षेमाय न। अद्य तं मत्स्यागारन्नेष्यामीति चिन्तयामि। अस्मासु केनाप्स्य नगरस्य मत्स्यागारो न दृष्टः।

शनिवार, 1 सितंबर 2018

अगवेष्यो जालपुटः

अस्मिञ्जालपुटे सुतराँल्लिखाम्यहम्। गूगलगवेषकेण सूचीकृतोऽयञ्जालपुटः। तथापि प्रायेणैष जालपुटोऽगवेष्यः। केन कारणेन? गूगलगवेषणपरिपाटिः केवलं सम्पूर्णशब्दानाङ्गवेषणङ्करोति। उदारहणतः ‘दृष्ट्वामोदिषि’ अस्मिञ्छब्दे वस्तुतो द्वौ शब्दौ स्तः - ‘दृष्ट्वा’ ‘अमोदिषि’ च। गूगलगवेषकः ‘दृष्ट्वामोदिषि’ संयुक्तशब्दमेव सूचीकरोति। अतो यदि ‘दृष्ट्वा’ उत ‘अमोदिषि’ इति शब्दाभ्याङ्केनापि गवेषणङ्क्रियते तर्हि ‘दृष्ट्वामोदिषि’ इति शब्देनाधृतजालपुटो न दृश्यते यतो गूगलगवेषकः शब्दान् भागशो न सूचीकरोति। अत एष जालपुटोऽन्तर्जाले वर्तित्वाप्यन्तर्हितः। सोल्लुण्ठनञ्जनास्तेषाञ्जालपुटान् गवेष्यः करणार्थङ्किङ्किन्न कुर्वते। अहन्तु प्रतिकूलङ्करोमि। सन्धिमुपयुज्य मदीयञ्जालपुटमगवेष्यङ्कारयामि। जना एतं पठेयुरित्यहमीहे परन्तु स्वच्छन्दतया स्वोपज्ञलेखनशैलीं प्रयोक्तुं शक्यते मयेत्यस्य जालपुटस्यास्तित्वस्य निदानम्। एष जालपुटोऽन्तर्जाले गवेष्य इत्यस्याङ्गता मह्यम्।

मोहन्जो-दारो

‘मोहन्जो-दारो’ इत्याख्यञ्चलच्चित्रमद्राक्षम्। दृष्ट्वामोदिषि। सिन्धुघाटीसभ्यताविषये केनचिच्चलच्चित्रं निर्मितमिति सन्तोषाय। चलच्चित्रं प्रायेण भूतार्थम्। निर्मातृणा सम्यगनुसन्धानङ्कृत्वैवादश्चलच्चित्रं निर्मितम्। भारतस्याधिकानि चलच्चित्राणि भारतस्यैतिह्यं दर्शयेयुरिति ममाशा। अदश्चलच्चित्रमवश्यं द्रष्टव्यम्।

लघुनिद्रा

मम निद्रासङ्घर्षोऽनुवर्तते। गतरात्रौ घण्टाचतुष्टयं मात्रन्निद्रामलप्सि। दिष्ट्याद्यापराह्णे सार्धैकघण्टा यावदशयिषि।