रविवार, 18 मार्च 2018

रक्तचापः

सूचना - अहं न चिकित्सकः, न वैद्यः, न वैज्ञानिकः। अस्मिँल्लेखे दत्ता सूचना मदनुभवमेव दर्शयति। एषा सूचना वैद्यनिर्देशो न भावयितव्या।

आधुनिककाले बहवो जना उच्चरक्तचापेन पीड्यन्ते। जना रक्तचापस्य नियन्त्रणायौषधं सेवन्ते। तथापि तेषां रक्तचापः सामान्यो न भवति। उच्चरक्तचापस्य प्रमुखतो द्वे कारणे - व्यायामस्याभावो लवणयुतं भोजनञ्च। कतिपयेभ्यो वर्षेभ्यः पूर्वं मम रक्तचापोऽपि वर्धित आसीत्। उच्चरक्तचापेन मयापीड्ये। स १२०/९० अस्ति स्म। अद्यत्वे स १००/७५ अस्ति। अहङ्किमप्यौषधन्न सेवितवान्। केवलमिमे द्वे कार्ये कृत्वा रक्तचापो नियन्त्र्यक्रियत मया।

१. प्रतिदिनं न्यूनातिन्यूनँस्त्रिशन्निमेषेभ्यो वेगेन चलितव्यः।
२. पच्यमाने भोजनेऽल्पमात्रायाँल्लवणं प्रयोक्तव्यम्। खादति भोजने कदापि लवणन्न क्षेप्तव्यम्। भोजनोत्पीठिकाया लवणकूप्यपहरणीयम्।

शनिवार, 17 मार्च 2018

धनव्ययः

अहं सदैव धनव्ययन्नस्मीति भासते। प्रतिदिनङ्कश्चन व्ययः कर्तुमावश्यकतास्ति। कदाचिज्जलोर्जेन्धनाङ्कृते। कदाचित् पुत्रस्य कृते। गृहस्वामित्वङ्कारणाद्गृहैव बहवो व्ययाः करणीया मया। उदाहरणतो गतदिनेष्वेव नूतनाश्चुल्लिका, भोजनोष्णयन्त्रम् (माइक्रोवेवः), दूरदर्शनञ्चाक्रीणम्। मत्कुटुम्बकँव्विरलेन भोजनार्थमाहारगृहं बहिर्गच्छति। वयँव्व्यर्थेन वस्तून्यपि न क्रीणीमस्तथापि प्रतिदिनङ्किञ्चन धनं व्ययीकरोमि। अहन्तु भागवान् यद्दैवाद्मत्समीपे धनमस्ति परन्तु काले कालेऽहञ्चिन्तयामि दीनजनाः कथञ्जीवनँय्यापयन्तीति। धनाभावात् कीदृश्यः समस्यास्तैरनुभूयन्ते।

यत्र नार्यस्तु पूज्यन्ते

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥

सन्धिविच्छेदितरूपम् -
यत्र नार्यः तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्र ताः तु न पूज्यन्ते सर्वाः तत्र अफलाः क्रियाः॥

एतत्सुभाषितं नारीणां महत्वं द्योतयति।
प्रथमवाक्यस्यार्थः - यत्र नारीणामादरसम्मानौ क्रियेते तत्र स्वयं देवा निवसन्ति।
द्वितीवाक्यस्यार्थः - यत्र नारीणामादरसम्मानौ न क्रियेते तत्र सर्वाणि कार्याणि असफलानि भवन्ति।

आ प्राचीनकालान्नारी पुरुषस्याधीना तस्मिन्नाश्रिता च। यः पुरुषस्ताङ्कथयामास सा चकार। एवं मानवसमाज आसीत्। आधुनिककाले नार्यः स्वाधीनता तस्या महत्वञ्चास्माभिर्ज्ञेये ज्ञापयनीये च। तस्यायादरसम्मानौ देयौ। सा वस्त्विव न भावयितव्या। यद्यस्मिन् काले वयमेतत् कर्तुन्न शक्नुमस्तर्हि का प्रगतिः साधिता मानवैः?

रविवार, 11 मार्च 2018

पेयानि

अद्यत्वे बहूनि पेयान्युपलब्धानि। अधिकतमा जना अचिन्तया तानि पिबन्ति। तेषाँव्विषये चिन्तनार्हङ्किमस्तीति पृच्छ्येत। वदामि। कस्यापि पेयस्य पानात् पूर्वं ‘अमुष्मिन् पेये कियती शर्करा वर्तते?’ इति प्रच्छनीयम्। शर्करा वपुषेऽतिहानिकारिण्यस्ति। सा मधुमेहस्य कारणं भवेत्। सद्य शोधकार्याणि दर्शयन्ति यद्बह्योऽन्या हानयोऽपि तया क्रियन्ते। मस्तिष्के हृदये चापि हानिकारकः प्रभावस्तया क्रियते। तया दन्ता यकृच्चापि क्षीयन्ते। शर्करास्थिषु वेदना जनयति। शर्करायामूर्जा वर्ततेऽतः सा वपुषस्स्थूलत्वस्य कारणमपि भवेत्। यद्यपि शर्करायामूर्जा वर्तते तथापि तस्याः सेवनं पश्चादलसमनुभूयते। ये जनाः शर्करायुक्तानि पेयान्युपसेवन्ते तयिमाः सर्वा हानीरनुभवन्ति। अतः शर्करायुक्तानि पेयानि न पातव्यानि। तर्हि किं पातव्यम्? सुलभोत्तरः। यानि पेयानि सहस्रवर्षाः पूर्वमुपलब्धानि तान्येव पातव्यानि। तानि कानि? जलम्, क्षीरम्, नारिकेलजलम्, फलरसश्चायकाफीपेये च। मदिरापि पातुं शक्यते परन्तु लेश एव। मदिराफलरसौ वर्जयित्वामीषु पेयेषु शर्करा न्यूना। मदिराफलरसौ केवलमल्पमात्रायां प्रयोक्तव्यौ। फलरसः परित्यज्य तत्स्थाने फलानि खादनीयानि। पीयमानानि पेयानि नियन्त्रीकृत्य वपुषो बहवा रोगानपगमयितुं शक्यन्ते।

आयकरः

आयकरोऽद्यतनस्य जीवनस्य कटुसत्यमस्ति। कस्मायप्यायकरो न रोचते। स्यान्नाम सर्वकाराय रोचते यतः स प्रजाभ्यो धनं प्राप्नोति। मह्यमायकरा रोचतयिति तु नाहङ्कथयामि परन्त्वायकरं प्रति मम मनसि द्वेषभावना न वर्तते। प्रतिवर्षमायकरः काचन गणितसमस्या प्रस्तौति। सर्वान् नियमान् पालयन्नपि कथं न्यूनतमायकरो मया दातव्यमिति। अवैधविध्या विना सर्वकाराय कथं न्यूनतं धनं देयमिति। असौ समस्या मां रुचिकारिणी भासते। न्यूनतमायकरं दानाय वर्षस्यादावेवास्मिन् विषये चिन्तनीयम्। योजना रचयितव्या। योजना कथं प्रचलतीति वर्षे काले काले बहुवारङ्गणयितव्यम्। आवश्यकतास्ति चेद्योजना परिवर्तनीया। योजनयैव धनं परिरक्षितुं शक्यते वृथा चाधिकधनं न दीयेत। योजनां सज्जीकरणे कश्चन परिश्रम आवश्यकः। ये जनाः परिश्रमभयाद्योजना न रचयन्ति ते प्रतिवर्षमायकरेऽधिकधनं ददति - प्रायर्बहुसहस्ररुप्यकाणि । ते जना एवेतस्ततोऽल्पधनं परिरक्षितुँय्यायत्यन्ते। सोल्लुण्ठनमस्ति ननु?

रविवार, 4 मार्च 2018

युयुत्सुः साहाय्यमपेक्षते

कुरुक्षेत्रे युद्धं प्रचलति। युयुत्सू भीमदुर्योधनौ स्पर्धेते। तौ परस्परमभिमुखमवतिष्ठेते। तदा भीमभयाद्दुर्योधनोऽधस्तेन दत्तेन मार्गेण पलायते।

स पञ्चाशद्मीटरपरिमितङ्कौबेर्यां धावति। ततः पञ्चाशद्मीटरपरिमितमैशान्याम्। ततः पञ्चाशद्मीटरयावद्याम्याम्। ततः स नैर्ऋत्यां पलायते।

दिङ्मूढतावशाद्भीमसेनः स्पर्धास्थानात् पञ्चाशद्मीटरयावद्वारुण्याङ्गच्छति। ततः पञ्चाशद्मीटरनिमितमाग्नेय्याम्। ततश्शतमीटरपरिमितं माहेन्द्र्याम्।

दुर्योधनस्य मार्गे दुर्योधनं मेलनार्थं वायव्यां भीमसेनेन कियद्दूरङ्गम्येत? उभयोर्वेगावनवधेयौ।

शनिवार, 24 फ़रवरी 2018

मङ्गलगामकौ

“भव्यं दृश्यम्। मङ्गलग्रहो मया बहुवारँव्वाननिरीक्षण्या सङ्गणकफलके च दृष्टं परन्तु प्रत्यक्षदर्शनस्यानन्दोऽद्वितीयः।” - अन्तरिक्षयानं मङ्गलग्रहेऽवतारयितुं सन्नाहाः कुर्वन् भानुकुमारोऽवदत्।

“सत्यमुक्तम्। मङ्गलग्रहोऽतिसुन्दरः। भवाँस्तु शाश्वतँव्विश्वविख्यातो यशस्वी च भविष्यति। नीलार्मस्ट्रौंगादपि महत्तरा प्रसिद्धिः प्राप्स्यति। ‘भानुकुमारः - मङ्गलग्रहे प्रथममानवः’ ईदृशी वार्ता पृथ्व्याः सर्वेषु वार्तापत्रेषु पठिष्यते।” - भानोः सहान्तरिक्षयात्री हरिप्रसादो याननियन्त्रणसङ्गणके कार्यङ्कुर्वन् भानुमुद्दिश्यावदत्।

“भवानपि मङ्गलग्रहे द्वितीयमानवो भविष्यति। एषापि न लघुसिद्धिः।”

“हा! भवान् मङ्गलग्रहे प्रथममवतरिष्यति तस्मादेतद्वदति। जगत् केवलं प्रथममानवं स्मरति। कोऽपि द्वितीयमानवस्य नाम न स्मरिष्यति। किं भवान् वक्तुं शक्यते चन्द्रमसि द्वितीयमानवः कः?” हरिप्रसादः प्रत्युत्तरः प्राददात्।

“आवां पृथ्व्या द्वाविंशतिः कोटयः किलोमीटरदूरं स्वः। संपर्कविलम्बवशात् पृथ्व्याः साहाय्यँल्लब्धुन्न शक्यते। आवाभ्यां सर्वं यथाव्यवस्थितङ्कर्तव्यम्। एतत् स्थानं द्वेषीर्षाभ्यां नास्ति। आवां मानवभावना न्यूनीकृत्य केवलमावयोः कर्तव्यपालनङ्करणीयम्। योजनानुसारेण सर्वाणि कार्याणि करणीयान्येतदावयोः कर्तव्यम्।”

“आम्। आम्। मया ज्ञायते। मम कर्तव्यङ्किं भवता स्मारयितुमावश्यकता नास्ति।” - हरिर्विरोधं प्रादर्शयत्। “अन्तरिक्षवर्मणी सन्नाहाय परङ्कक्षे गच्छामि। सम्प्रति तु एतन्मम कर्तव्यम्।” एतदुक्त्वा हरिः परङ्कक्षेऽगच्छत्।

विंशतिनिमेषा अतीताः। तदानीं परङ्कक्षाद्धावन् हरिरागत्य भानुमवदत् - “भानो! अन्तरिक्षवर्मणी निरीक्षमाणे मया दृष्टँय्यद्भवतोऽन्तरिक्षवर्मणि छिद्रमस्ति!”

“किङ्कथयति भवान्? एतत् कथं शक्यते? पृथ्व्यां सर्वं सूक्ष्मतया नीरिक्षितं। तदानीन्तु छिद्रन्नास्ति! अधुना छिद्रङ्कुत आगतम्?”

“अहन्न जाने।” स्कन्धावुत्क्षिप्य हरिः स्पष्ट्यकरोत्।

भानुरश्रद्धेयतया हरिमपश्यत्। तस्य चक्षुषी क्रोधेन रक्तवर्णिते जाते।

“सम्प्रति किङ्कर्तव्यमावाभ्याम्?” हरिरपृच्छत्।

“योजनानुसारेणैवावाभ्यामग्रे गमनीयौ। यत् पूर्वं परिकल्पितं तदेव करणीयम्। आवयोर्वपुषी समाकारे। अतोऽहं तवान्तरिक्षवर्म धृत्वा मङ्गलग्रहेऽवतरिष्यामि। यदाहं प्रत्यागमिष्यामि तदा भवान् गन्तुं शक्यते।” - भानुना प्रस्तावो दत्तः।

“नैवं शक्यते। भवतो वर्म समीचीनं नास्त्यिदं भवतो दौर्भाग्यम्। प्रथममहङ्गमिष्यामि।”

“हरिप्रसाद! अहन्न मूर्खः। छिद्रङ्कुत उत्पन्न अहञ्जाने। त्वयैवैतद्दुष्कर्म कृतम्।” भानुरगर्जत्।

“भानो! केनाधारेण त्वं मय्येष दोष आरोपयसि? एतन्न सत्यम्।” हरिर्विरोधः कृतवान्।

“असूया त्वां बाधते। मङ्गगलग्रहे कतरः प्रथममवतरिष्यति पृथ्व्यामेवेति यदृच्छयान्तरिक्षसंस्थया निश्चितङ्कृतं त्वञ्जानासि। अस्तु। यथेच्छा कुरु। त्वमेव प्रथमङ्गच्छ। त्वमेव मङ्गलग्रहे प्रथममानवो भविष्यति।” भानुरुक्तवान्।

यानं मङ्गलग्रहेऽवतार्य हरिर्यानद्वारमुद्घाट्य मङ्गलग्रहे तस्य पादस्स्थापितवान्। तस्य मनोऽमोमुद्यत। “अहं मङ्गलग्रहे प्रथममानवोऽभूवम्।” सोऽमोदत। हरिर्यानात् किञ्चिद्दूरे गत्वा वैज्ञानिकप्रयोगा आरब्धवान्। अनन्तरं भानुर्यानयुपविशन् क्रोधेनासीदत्। स हरयेऽकुप्यत्। तदानीं स यानसङ्गणकफलके दृष्टवान् यद्भयङ्करं सिकताचण्डमरुदागच्छन्नासीत्। सङ्गणको मरुतो वेगङ्गणयित्वापत्सङ्केतोऽनादयत्। सङ्गणकफलकमदर्शयद्यत् सिकताचण्डमरुत् त्रिंशन्निमेषा अनन्तरँय्यानङ्घोरहानिः कुर्यात्। ततः पूर्वं प्रस्थानमावश्यकम्। भानुराकाशवाण्यां हरिं सम्पर्कः कृतवान्।

“हरे! सिकताचण्डमरुदागच्छन्नस्ति। सकृत् प्रस्थानङ्करणीयम्। यानपर्यन्तं पुनरागमनाय कियान् समय आवश्यकः?”

“अहँय्यानात् पञ्चशतमीटरदूरे स्थितः। विंशतिनिमेषा आवश्यकाः। प्रतीक्षस्व।” हरिरसूचयत्।

“एतावान् समयो नास्ति। सङ्गगणकं दर्शयति सिकताचण्डमरुद्यानं पञ्चदशनिमेषेषु तोत्स्यति। यानङ्घोरहानिरपेक्ष्यते। ततः पूर्वमावाङ्गन्तव्यौ। शीघ्रमागच्छ।” भानुरसूचयत्।

“भानो! कृपया मया विना मा गच्छ।” हरिः प्रार्थयत।

“त्रयोदशनिमेषेभ्योऽहं भवते प्रतीक्षे। तत्पश्चान्मया गन्तव्यम्। अन्यः कोऽपि न विकल्पः। ततः पूर्वं धावित्वागच्छ।” भानुरवदत्।

त्रयोदशनिमेषा अतीताः। सिकताचण्डमरुद्यानं सप्तदशनिमेषाः पश्चात् तोत्स्यतीति सङ्गणफलकं दर्शयन्नासीत्।

“हरे! भवान् कुत्रास्ति?”

“अहं प्रतियानं धावामि। पञ्चनिमेषा अनन्तरँय्यानं प्राप्नुयाम्। प्रतीक्षस्व।”

“क्षमस्व मित्र। सिकतामरुत् सम्प्रति यानं तोत्स्यति। मया गन्तव्यम्। अन्यथा भवता सहाहमपि मरिष्ये। भवतः क्षमा याचे।” इति कथयित्वा भानुर्यानस्य द्वारं पिधाय यन्त्रं प्रारभ्य हरिणा विना मङ्गलग्रहमत्यजत्।

"हरे! त्वमेव मङ्गलग्रहे प्रथमो मानवोऽभूस्त्वमेव मङ्गलग्रहे प्रथमो मरिष्यन् मानवो भविष्यसि।" पृथ्व्या दिशि गच्छन् भानुश्चिन्तितवान्।

"बुभुक्षामि। किञ्चिदभोजनङ्खादेयम्।" इति चिन्तयन् भानुर्भोजनपोटलिकाँल्लब्ध्वा तामुद्घाटितवान्। “एतत् किम्? भोजनपोटलिकायां बहूनि छिद्राणि दृश्यन्ते। कुत आगतानि छिद्राणि?” सोऽचिन्तयत्। तदानीं स भूतले धावन्तं मूषकं दृष्टवान्। “अहो दौर्भाग्यम्! दुष्टमूषका मङ्गलग्रहं पर्यन्तं मानवमनुसृतवन्तः!” भानुश्चीतकृतवान्। तत्क्षणे तेन किङ्कृतमिति विचिन्त्य तस्य मनो विषादे न्यमज्जत्। "एतन्मया किङ्कृतम्? कथमपि हरिरानेतव्यः।" इति निश्चित्य भानुकुमारो यानं मङ्गलग्रहस्य दिशि प्रत्यावर्तत।