रविवार, 11 मार्च 2018

पेयानि

अद्यत्वे बहूनि पेयान्युपलब्धानि। अधिकतमा जना अचिन्तया तानि पिबन्ति। तेषाँव्विषये चिन्तनार्हङ्किमस्तीति पृच्छ्येत। वदामि। कस्यापि पेयस्य पानात् पूर्वं ‘अमुष्मिन् पेये कियती शर्करा वर्तते?’ इति प्रच्छनीयम्। शर्करा वपुषेऽतिहानिकारिण्यस्ति। सा मधुमेहस्य कारणं भवेत्। सद्य शोधकार्याणि दर्शयन्ति यद्बह्योऽन्या हानयोऽपि तया क्रियन्ते। मस्तिष्के हृदये चापि हानिकारकः प्रभावस्तया क्रियते। तया दन्ता यकृच्चापि क्षीयन्ते। शर्करास्थिषु वेदना जनयति। शर्करायामूर्जा वर्ततेऽतः सा वपुषस्स्थूलत्वस्य कारणमपि भवेत्। यद्यपि शर्करायामूर्जा वर्तते तथापि तस्याः सेवनं पश्चादलसमनुभूयते। ये जनाः शर्करायुक्तानि पेयान्युपसेवन्ते तयिमाः सर्वा हानीरनुभवन्ति। अतः शर्करायुक्तानि पेयानि न पातव्यानि। तर्हि किं पातव्यम्? सुलभोत्तरः। यानि पेयानि सहस्रवर्षाः पूर्वमुपलब्धानि तान्येव पातव्यानि। तानि कानि? जलम्, क्षीरम्, नारिकेलजलम्, फलरसश्चायकाफीपेये च। मदिरापि पातुं शक्यते परन्तु लेश एव। मदिराफलरसौ वर्जयित्वामीषु पेयेषु शर्करा न्यूना। मदिराफलरसौ केवलमल्पमात्रायां प्रयोक्तव्यौ। फलरसः परित्यज्य तत्स्थाने फलानि खादनीयानि। पीयमानानि पेयानि नियन्त्रीकृत्य वपुषो बहवा रोगानपगमयितुं शक्यन्ते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें